Book Title: Nandanvan Kalpataru 2004 00 SrNo 13
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 91
________________ - आचार्यहेमचन्द्रसूरिकृतं छन्दोऽनुशासनम् के आचार्य डॉ. रामकिशोर मिश्रः २९५/१४, पट्टीरामपुरम् खेकड़ा-२०११०१ (बागपत) उत्तरप्रदेश: छन्दोदृष्ट्या छन्दोऽनुशासनमेका महत्त्वपूर्णरचना विद्यते । अत्र संस्कृतप्राकृताऽपभ्रंशसाहित्यिकच्छन्दोनिरूपणम् । अस्य रचयिताऽऽचार्यहेमचन्द्रसूरिरस्ति । अस्य जन्म 6 गुर्जरप्रदेशे धंधुकानगरे शरयुगचन्द्रेश्वराऽङ्किते ११४५ वैक्रमाब्दे कार्तिक्यां रात्रौ बभूव। अस्य बाल्यनाम चाङ्गदेव आसीत्, यः सूरिपदं प्राप्य हेमचन्द्रनाम्ना विख्यातः । अयं पूर्णतलगच्छीयदेवचन्द्रसूरिशिष्योऽणहिलपुरपत्तनस्य नृपतिसिद्धराजजयसिंहसभाप्रमुखोप का विद्वान्महाराजकुमारपालस्य च धर्मगुरुरासीत् ।। अस्य पिता चाचिगो माता च का पाहिणीनामिकाऽऽसीत् ।२ । को मेरुतुङ्गकृतप्रबन्धचिन्तामणौ देवचन्द्राचार्येण स्तम्भतीर्थस्य पार्श्वनाथचैत्यालये - समुद्रबाणभूचन्द्राऽङ्किते ११५४ विक्रमाब्दे माघशुक्लचतुर्दश्यां शनिवासरे चाङ्गदेवस्य दीक्षानाम सोमचन्द्रः कृतः प्राप्यते, परमन्यत्राऽस्य दीक्षासंवत् खव्रतरुद्राङ्कितो११५० ऽस्ति । परं रसदोषरुद्राङ्किते ११६६ विक्रमसंवदि सोमचन्द्रेण सूरिपदं प्राप्य हेमसमकान्त्या कर CON चन्द्रसमाह्लादकतया च हेमचन्द्रसंज्ञाऽधिगता ।' विधुवसुरुद्रसंवदि ११८१ सिद्धराज-10 जयसिंहसभायामस्य हेमचन्द्रसूरिनाम्ना परिचयो लब्धः ।५ जयसिंहशासने हेमचन्द्रसूरिणार ग्रहनिधिरुद्राऽङ्कित ११९९ विक्रमसंवत्पूर्वं शब्दानुशासन-नाममाले द्वे रचने कृते । SR.१. डॉ. नेमिचन्द्रशास्त्री, आचार्यहेमचन्द्र और उनका शब्दानुशासन, पृ. ९ २. चन्द्रदेवसूरिकृते प्रभावकचरिते हेमचन्द्रसूरिः, ११-१२ श्लोकौ । प्रभावकचरितम्, २७-४५ पद्यानि । आचार्य हेमचन्द्र और उनका शब्दानुशासन, पृष्ठ - १३, १४ । ५. ह.दा.वेलणकरः, जयदामन्, परिचयः, पृ. ४६ । ६. ह.दा.वेलणकरः, जयदामन, परिचयः, पृ. ४६ । അഭി U. LSO . ७८ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138