Book Title: Nandanvan Kalpataru 2004 00 SrNo 13
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 90
________________ र ल नाऽऽसीत् कोऽपि भेदः । सम्प्रतिकाले त्वशक्यमेतत् । श्रीमतां शालायां दीनजनानां कृते प्रवेश एवाऽशक्यः । अत्यन्तं दुःखदायकमिदम् । यदा कोऽपि श्रेष्ठो गुरुजनो मिलति तदा मानवस्य जीवने आमूलं परिवर्तनमायाति । जीवनं धन्यं भवति । अधुना गुरोः शिष्यस्य च - उभयोरपि पक्षयोदिने दिने न्यूनतां दृश्यते । प्राचीना इव 3. गुरवो यथा न विद्यन्ते तथा प्राचीना इव शिष्या अपि न दृश्यन्ते । अधुना गुरुशिष्यसम्बन्धः । समयेऽर्थप्राप्तौ च बद्धो जातः । अनया स्थित्या मानवजीवने तथैव शिक्षणजगति महती हानिः सञ्जाता । अद्यतनशिक्षणतो मानवमूल्यानां हासो जातः । दया, करुणा, प्रेम, परोपकारः, सत्यम्- इत्यादयः शनैः शनै: न्यूनीभवन्ति । चिन्ताया विषयोऽयम् । यदा एतानि मानवमूल्यानि का मानवजीवने प्रस्थापितानि भविष्यन्ति तदैव शिक्षणं सार्थकं भविष्यति । तदर्थं च गुरुशिष्ययोर्मध्ये Com पितापुत्रतुल्य उदात्तः सम्बन्धः पुनः स्थापनीयोऽस्ति । B.A.M.S., M.A. (संस्कृत) नंदपुरम गुरखो बहवः सन्ति शिष्यवित्तापहारकाः । दुर्लभः स गुरुलॊके शिष्यचित्तापहारकः ॥ Jain Education International ७७ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138