Book Title: Nandanvan Kalpataru 2004 00 SrNo 13
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
जयसिंहमृत्योः पश्चादनेन कुमारपालशासने छन्दोऽनुशासनं, काव्यानुशासनं, द्वयाश्रयकाव्यं, त्रिषष्टिशलाकापुरुषचरितं योगशास्त्रं च ग्रन्था विरचिताः । ग्रहाऽऽत्मनेत्रेश १२२९संवदीहलीलाऽस्य समाप्ता । अतश्छन्दोऽनुशासनरचनाकालः सिद्धिग्रहरुद्रान्निधिनेत्रात्मभूमध्ये ११९८ - १२२९ विक्रमाब्देषु सम्भवति ।
छन्दोऽनुशासनमेकः सूत्रग्रन्थोऽस्ति । अत्र हेमचन्द्रसूरिणा संस्कृत - प्राकृतापभ्रंशभाषाच्छन्दांसि निरूपितानि । मूलग्रन्थः संस्कृतभाषायामस्ति, यस्मिन् स्वोपज्ञवृत्तिरपि संस्कृते हेमचन्द्रकृतैव प्राप्यते । अत्राऽष्टाध्यायाः सन्ति येषु ७४६ सूत्राणि ९७९ छन्दोलक्षणानि च विद्यन्ते । प्रथमाध्याये छन्दोलाक्षणिकचिह्नानि दर्शितानि । द्वितीये तृतीये चतुर्थे चाऽध्यायेऽन्तर्गतानि ६२५ संस्कृतच्छन्दांसि लक्षितानि येषु समार्धसमविषमवृत्तैः सह १० दश द्विपदवृत्तानि सन्ति । चतुर्थपञ्चमाध्याययोरपभ्रंशस्य षष्ठसप्तमाध्याययोश्च प्राकृतस्य ३५४ छन्दांसि लक्षितानि येषु १०४ द्विपदीनि ९९ चतुष्पदीनि, ११३ अर्धचतुष्पदीनि ५ पञ्चपदीनि २ अष्टपदी, ३ द्विभङ्गीनि, २ त्रिभङ्गी, ४ अर्धषट्पदीनि शेषेषु विषमाणि तथाऽन्यानि छन्दांसि सन्ति । संस्कृतच्छन्दसामुदाहरणेषु ६२६ पद्यानि, प्राकृतापभ्रंशच्छन्दसामुदाहरणेषु च ३८० पद्यानि सन्ति ।
आचार्यहेमचन्द्रसूरिः पद्येषु छन्दांसि मन्यते, गद्येषु न । १० अतस्तेन लोके व्यवहारयोग्यानामेव छन्दसां निरूपणं कृतम् । ११ छन्दसां विषये सैतव- काश्यप-भरतपिङ्गलाऽहीन्द्र- जयदेव - स्वयम्भुप्रभृतिसप्तानां पूर्वाचार्याणां मतानि प्रकाशितानि । ९२ भरतोल्लेखः सर्वाधिकः प्राप्यते, तन्नाम्ना वृत्तौ बहूनां तेषां छन्दसां नामान्तराण्यपि प्राप्यन्ते, येषां प्राप्तिर्वर्तमाने नाट्यशास्त्रे नास्ति । सप्तवाहन - श्रीहर्ष - धनपालादिकवीनां केषाञ्चिच्छन्दसामुदाहरणपद्यान्यपि १३ सन्ति । ग्रन्थे छन्दोऽनुशासने यानि ६२५ संस्कृतवृत्तानि
७- ८. ह. दा. वेलणकर, जयदामन्, परिचयः, पृ. ४६ ।
९.
ह.दा.वेलणकरः, टीकासहितं छन्दोऽनुशासनम्, मुम्बापुरी, १९६१ ।
१०. 'गद्यकाव्ये न छन्दसामुपयोगः ' । छन्दोऽनुशासनवृत्तिः - १ / १ ।
११. 'काव्योपयोगिनां वक्ष्ये छन्दसामनुशासनम् । छन्दोऽनुशासनम् - १/१ 1
१२. छन्दोऽनुशासनम् - २ /१२ तः २ / ११० सूत्रपर्यन्तम्, वृत्तौ - २ / २४३/१, २४४/१, २९७/१, ३/३२/१,
४४/१, ५२/१, ३२३/१ १३. छन्दोऽनुशासनम्
Jain Education International
-
३/७३/२, ४/८५/१, ५/३२/३
७९
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138