Book Title: Nandanvan Kalpataru 2004 00 SrNo 13
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 84
________________ 62 आस्वादः चिन्तनधार मुनिरत्नकीर्तिविजयः आहारार्थं कर्म कुर्यादनिन्द्यं, स्यादाहारः प्राणसन्धारणार्थम् । प्राणा धार्यास्तत्त्वजिज्ञासनाय, तत्त्वं ज्ञेयं येन भूयो न भूयात् ॥ प्रवृत्तिर्द्विधा भवति- (१) प्रयोजनमुद्दिश्य (२) इच्छामनुसृत्य च । द्वयोरपि मध्ये महदन्तरमस्ति । प्रयोजनं हि तदस्ति यत् सिद्ध्यति, सिद्धे च सति तृप्तिमप्यनुभूयेत, परमिच्छा तु सा या न पूर्णा भवति । भाग्ययोगेन पूर्णायां सत्यामप्यतृप्तिरेव जनयेदिति । प्रयोजनं नियतं भवति, इच्छा तु न तथा । इच्छा लघुस्वरूपेणोद्भूय वायुवच्छनैः शनैर्विस्तरति । प्रयोजनस्याऽन्तो विद्यते यश्च प्राप्तुमपि शक्यते किन्त्विच्छाया अन्तो दृश्यमानः सन्नपि ग्रहीतुं प्राप्तुं वा न शक्यते । किं मूलमस्त्यस्माकं प्रवृतेः प्रयोजनमुतेच्छा ? इति संशोध्यमस्माभिः । अविरतं वयं प्रवृत्तिनिरताः स्मः । कदाचिद् वयमेतदपि न जानीमो यदेतत्सर्वमपि वयं किमर्थं कुर्मः ? इच्छाया एकमन्तं गृहीत्वाऽपरान्तस्य प्रापणस्य मिथ्येहां वहमाना वयं सततं धावामः । अन्ततोगत्वा च मुखेऽतृप्तेविषाद एव लिप्तो दृश्यते । जीवनस्याऽन्तकालेऽपि तस्या अपरोऽन्तो न प्राप्यते । जीवश्चाऽनवाप्तबोध एवेहलोकं त्यक्त्वा प्रयाति । अतो यदि नाम वयमस्माकं प्रवृत्तेर्मूलं शोधयेम, इच्छायाः स्वरूपमुपलक्ष्य च प्रयोजनमेवोद्दिश्य ) प्रवर्तेमहि तर्खनेकेभ्यो विषादव्यथासन्तापादिभ्यो मुञ्चेम । - अत्र श्लोके प्रवृत्तेर्जीवनस्य चाऽपि वास्तविकानि मूलभूतानि प्रयोजनानि दर्शितानि सन्ति । तदनुसरणमेव सुखस्य मार्गः । तत्र-आहारार्थं कर्म कुर्यादनिन्द्यम् - न कर्म विना संसारः प्रवर्तते । अनिवार्यस्य । कर्मणोऽत्र यथा प्रयोजनं दर्शितमस्ति तथा मर्यादाऽपि निर्दिष्टाऽस्ति । आहारार्थं कर्म कुर्यादिति प्रयोजनमस्ति, अनिन्द्यं कर्म कुर्यादिति च मर्यादा । एतद् द्वयं यत्र विद्यते 19 तत्र संसारे स्वर्गमेव भवति । अपेक्षा यद्यल्पाः स्युस्तहि पापं नाऽनिवार्यं भवति । । अस्माकमपेक्षा आहारमाजीविकां वाऽतिक्रम्य प्रवर्तन्ते, अत एव चाऽस्माभिः कथनीयं । ७१ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138