Book Title: Nandanvan Kalpataru 2004 00 SrNo 13
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 82
________________ एवं च सततं योगवृद्धेरभ्यासाद् यद्यस्मिन्नेव जन्मनि योगसमाप्तिः स्यात् तर्ह्यात्माऽयोग्यवस्थां-शैलेश्यवस्थामर्थाद् यत्र मनोवाक्काययोगानां प्रवृत्तिर्नास्ति तादृशीं निष्प्रकम्पां शैलतुल्यां स्थिरामवस्थां प्राप्नोति । तदवस्थाप्राप्त्या च जन्म-जरामरणादिदोषरहिता, सती-यत: पुनरागमनं नास्ति तादृशी, एकान्तविशुद्धा च सिद्धिगतिः प्राप्यते । यदि च कदाचित्तस्मिन्नेव भवे योगसमाप्तिर्न स्याद् योगश्चाऽपूर्णो यद्यवतिष्ठेत तर्ह्यपि योगरूपे मोक्षमार्गे आजन्म कृतेन पुरुषार्थेनाऽऽत्मा देवगतौ विशिष्टजातिकुलादियुक्तायां वा मनुष्यगतौ जन्म प्राप्नोति, यत्र च योगमार्गेऽग्रेसरीभवितुमनुकूला सामग्री प्राप्यते । गतभवे च कृतेन योगस्य दृढाभ्यासेन - अर्थात् प्रणिधानपूर्वकं कृतया योगप्रवृत्त्या तस्य विघ्नानां नाशो भवति, अस्मिंश्च भवे शीघ्रमेव योगसिद्धिर्जायते । यथा कश्चिद् दिवसाभ्यस्तं विषयं तद्दृढाभ्यासवशाद् रात्रौ स्वप्नेऽप्यनुभवति तथैवाऽस्मिन् भवे यदि योगस्य दृढोऽभ्यासः कृतः स्यात् तर्हि भवान्तरेऽपि योगप्राप्तिर्भवति । अत एव च प्रत्येकमात्मभिः शुद्धयोगमार्गोचितानि यानि स्थानानि - अर्थादा. गमनिर्दिष्टानि निरवद्यानि योगमार्गानुकूलानि समत्वादिसंयमस्थानानि - तत्र सततं वर्तितव्यम् । इह-परलोकविषये जीवित - मरणादिविषये च सदा समदृष्टिना भाव्यम्, यत एतादृश्यवस्थैव मुक्तावस्थाया बीजमस्ति । अथोपसंहरन्नाह Jain Education International परिशुद्धचित्तरयणो चएज्ज देहं तदंतकाले वि । आसण्णमिणं णाउं अणसणविहिणा विसुद्धेणं ॥ ९६ ॥ अणसणसुद्धीए इहं जत्तोऽतिसएण होइ कायव्वो । जल्लेसे मरइ जओ तल्लेसेसुं तु अववाओ ॥ ९८॥ लेसाण वि आणाजोगओ उ आराहगो इहं नेओ । इहरा असतिं एसा वि हंतऽणाइम्मि संसारे ॥ ९९ ॥ ता इय आणाजोगो जइयव्वमजोग - अत्थिणा सम्मं । एसो चिय भवविरहो सिद्धीए सया अविरहो य ॥१००॥ ६९ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138