Book Title: Nandanvan Kalpataru 2004 00 SrNo 13
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 75
________________ उपयोगः पुनरत्र विज्ञेयो यः समीपयोग इति । विहितक्रियागतः खल्ववितथभाव एव सर्वत्र ॥७६।। गुरुदेवताभ्यो जायतेऽनुग्रहोऽधिकृतस्य ततः सिद्धिः । एष च तन्निमित्तस्तथाभावाद् विज्ञेयः ॥६२॥ यथैव मन्त्ररत्नादिभ्यो विधिसेवकस्य भव्यस्य । उपकाराभावेऽपि तेषां भवतीति तथैषः ॥६३।। स्थानात् कायनिरोधस्तत्कारिषु बहुमानभावश्च । दंशाद्यगणनेऽपि वीर्ययोगश्चेष्टफलः ॥६४॥ तद्गतचित्तस्य तथोपयोगतस्तत्त्वभासनं भवति । एतच्चाऽत्र प्रधानमङ्गं खल्विष्टसिद्धेः ॥६५॥ एवमभ्यासात्तत्वं परिणमति चित्तस्थैर्यं च । जायते भवानुगामि शिवसुखसंसाधकं परमम् ॥७७।। सप्तप्रकारको विधिरत्र चिन्तनमधिकृत्य दर्शयति । तद्यथा- (१) आज्ञापूर्वकम्, र (२) विविक्ते-एकान्तप्रदेशे, (३) सम्यगुपयोगवान् भूत्वा, (४) गुरुभ्यो देवताभ्यश्च 1) प्रणम्य, (५) पद्मासनाद्यासनस्थो भूत्वा, (६) दंशमशकादिशारीरिकोपद्रवानवगणय्य, र तथा (७) तत्त्वावबोधार्थं तत्र लीनं भूत्वा चिन्तनं करणीयम् । तत्र-. . (१) आज्ञया - आप्तवचनापेक्षयैव कृता काऽपि प्रवृत्तिः सफला भवति । हर A स्वातन्त्र्येण करणेऽनाः सम्भवन्ति । सामान्यप्रवृत्तावप्याप्तवचनानामनुसरणं यद्यनिवार्यमस्ति . तये॒ष तु योगमार्गः, अत्र तु कियत्यनिवार्यताऽऽप्तवचनस्य ? अतोऽत्र 'आज्ञया' KC स इत्युक्तमस्ति । वीतरागा एव वस्तुतस्तत्त्वद्रष्टार उपदेष्टारश्च भवन्ति, अतः परमगुरो र्वीतरागस्याऽऽज्ञापूर्वकं तत्त्वचिन्तनकरणेन सम्यक् तत्त्वावबोधो भवति, यत आज्ञा हि 5 रागादिविषाणां कृते परममन्त्रतुल्याऽस्ति । एवं च वचनानुरूपप्रवृत्त्या भावगुणाकरं भगवन्तं प्रति हार्दो बहुमानभावो जागृतो A भवति, ततश्च कर्मक्षयोऽपि परमो भवति । बहुमानभावादृते कर्मक्षयफलं नाऽवाप्तुं शक्यम्, यतः क्रिया तु सर्वाऽपि तुल्यत्वेनैव क्रियते किन्तु तत्र यद्याज्ञासापेक्षत्वं न स्याद् क Jain Education International For Private & Personal Use Only __www.jainelibrary.org

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138