Book Title: Nandanvan Kalpataru 2004 00 SrNo 13
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 79
________________ जोगाणुभावओ च्चिय, पायं ण य सोहणस्स वि अलाभो । लद्धीण वि संपत्ती इमस्स जं वण्णिया समए ॥८३।। रयणाई लद्धीओ अणिमादीयाओ तह य चित्ताओ । आमोसहाइयाओ तहा तहा जोगवुड्डीए ॥८४॥ | साधारणः पुनर्विधिः शुक्लाहारोऽस्य विज्ञेयः । L अन्वर्थतश्चैष पुनः सर्वसम्पत्करी भिक्षा ॥८१।। व्रणलेपौपम्येनोचितत्वं तद्गतं नियोगेन । अत्राऽपेक्षितव्यमितरथाऽयोग इति दोषफलः ॥८२॥ योगानुभावत एव प्रायो न च शोभनस्याऽप्यलाभः । लब्धीनामपि सम्प्राप्तिरस्य यद् वर्णिता समये ॥८३॥ रत्नाद्या लब्धयोऽणिमाद्यास्तथा च चित्राः । 1 आमर्पोषध्याद्यास्तथा तथा योगवृद्धः ॥८४॥ - योगस्य कस्यामप्यवस्थायां वर्तमानस्याऽऽत्मन आहारः शुक्लाहार एव भवति । 7 यः शुद्धानुष्ठानेन साध्यः, शुद्धानुष्ठानस्य हेतुभूतः, स्वरूपेण शुद्धश्च भवति स शुक्लः । 11 एतस्य शुक्लाहारस्यैवाऽपरं नामाऽस्ति 'सर्वसम्पत्करी भिक्षा' इति । सर्वसम्पत्करणशीला या भिक्षा सा सर्वसम्पत्करी भिक्षा । सा च दातृग्रहीतॄणामुभयलोकहिताय भवति । दाता ह्यत्र सुपात्रं प्रति भक्त्या प्रेरितः सन्नाकाङ्क्षादिरहितो भूत्वा ददाति, ग्रहीता चाऽपि 4 'स्वसाधनायां सहायभूतस्य देहस्य रक्षणार्थमेवाऽऽहारं गृह्णामि' इति बुद्ध्यैव गृह्णाति न । तु लोलुपो भूत्वा । एवं चोभयोरपि कल्याणमेव भवति । अत्रोचितभिक्षाया हविःपूर्णादिकाया लाभो योगप्रभावादेव भवति । शोभनाऽपि NS भिक्षा योगानुभावात् सुलभा भवति । यतो 'योगिनां रत्नादिलब्धयः, अणिमाA महिमादिलब्धयः, आमर्पोषध्यादिलब्धयश्चाऽपि योगवृद्धः कारणाद् भवन्ति' इति सिद्धान्ते उक्तमस्ति । येषां कृते एतादृश्यो लब्धयोऽपि सुलभास्तेषां कृते शोभनस्योचितस्य । चाऽऽहारस्य का वार्ता ? 1 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138