Book Title: Nandanvan Kalpataru 2004 00 SrNo 13
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 57
________________ - - कान्तकान्तासमेतस्य, दिव्यगेय श्रुतौ यथा । यूनो भवति शुश्रूषा, तथाऽस्यां तत्त्वगोचरा ॥ (योगदृष्टिसमुच्चयग्रन्थे ५२) (२) धर्मरागः- सम्यग्दृष्टिजीवस्य धर्मं प्रत्यत्यन्तमभिष्वङ्गः पक्षपातो वा 2 भवति । कदाचित् समयादिसामग्रीवैकल्येन धर्मकार्येषु प्रवर्तितुं न शक्नुयात् तथापि यत्र ) HD तस्य हार्दिकी प्रीतिर्वर्तत एव । यथा - 'कश्चिद् ब्राह्मणोऽटवीमुल्लिलिचिषुर्गृहानिर्गतः । अटव्या मध्यभागं प्राप्तः ( स बुभुक्षितो जातः । मार्गस्त्वितोऽपि दीर्घ आसीत् । किमप्यगृहीत्वैव स गृहान्निर्गत 7 आसीदतश्चिन्तितोऽभूत् । अतः स्खलन् सन् कथमपि पदमग्रे धत्ते । किन्तु किञ्चित्कालेनैव स चलितुमशक्त उपविष्टः । तावद् दैवयोगात् कश्चिज्जनस्तस्माद् मार्गानिर्गतः । स तु न 1) सपाथेयो गृहानिर्गत आसीत् । सोऽपि बुभुक्षितः सन्नेकत्रोपविश्याऽऽनीतं पाथेयमुद्घाट्य र भोजनार्थं सज्जोऽभवत् । स च ब्राह्मणस्तं पश्यति स्म । तत्र पाथेये घृतपूरं दृष्ट्वा तस्य जिह्वा लालाक्लिन्ना जाता । मनसि चिन्तयति यद् 'अहं कदैतादृशं घृतपूरं लभेयं' इति । तावत् तस्य पथिकस्य दृष्टिरस्योपरि पतिता । अस्य स्थितिमुपलक्ष्य तेनाऽसौ निमन्त्रितः । 27 ब्राह्मणोऽपि प्रतीक्षमाण इवैव विना प्रतिवचनमुत्थायाऽऽगतः । तत्सार्द्धमेव च भोजनं 6 कृतवान्' । एवं दृष्टान्तं प्रदर्श्य शास्त्रकारा वदन्ति यत्-यादृशोऽनुरागो घृतपूरविषये र 2. ब्राह्मणस्याऽऽसीत् ततोऽप्यधिको रागः सम्यग्दृष्टेर्धर्मविषये भवतीति । (३) वैयावृत्ये नियमः - मोक्षमार्गस्थापकानां जिनेश्वराणां, तेषां चैत्यानां तथा o मोक्षमार्गोपदेशकानां गुरूणां बहुमानपूर्वकं सेवादिकार्यं नाम वैयावृत्यम् । तदपि ORNO यथासमाधिना-स्वस्य परस्य च व्यग्रतोद्वेगः पीडा वा यथा न स्यात्तथा-करणीयम् । - सम्यग्दृष्टिश्च नियमेनाऽस्मिन् प्रवर्तते । । यथा कश्चिद् गुणज्ञः श्राद्धजनो दैवात् चिन्तामणिरत्नं लभेत । पश्चाच्च मनोऽ- 0 र भिलषितदायकस्य तस्य रत्नस्य यथाविधि पूजादिविधानेन नियमेन यादृशी सेवां कुर्यात् । ततोऽप्यधिकनियमदाढ्र्येन सम्यग्दृष्टिदेवगुरूणां वैयावृत्यं करोतीति । एतानि सन्ति लक्षणानि सम्यग्दृष्टेः । अनादिकालीना रागद्वेषाणां ग्रन्थिर्यदा ) Bा जीवेन भिद्यते तदा तस्य तत्त्वे तीव्रा रुचिरुत्पद्यते । ततश्चैतादृशानि लक्षणानि प्रादुर्भवन्ति, पर Jain Education International ४४ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138