Book Title: Nandanvan Kalpataru 2004 00 SrNo 13
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 68
________________ लीनतया मोहविषस्योन्मूलनं भवति, आध्यात्मिकी च चेतना पुनर्जागृता भवति । उक्तं सज्झाएण पसत्थं झाणं जाणइ य सव्वपरमत्थं । सज्झाए वढ्तो खणे खणे जाइ वेरग्गं ॥३३८॥ उपदेशमालायाम् । |स्वाध्यायेन प्रशस्तं ध्यानं जानाति च सर्वपरमार्थम् ।। Lस्वाध्याये वर्तमान क्षणे क्षणे याति वैराग्यम् ॥ । एते च प्रकटा-अनुभवसिद्धा उपायाः सन्ति । एतेषु यत्ने कृते कर्मणामुपक्रमो 5 भवति । अरत्या च सङ्केतितोऽकुशलकर्मणामुदयरूपो विघ्नो विनश्यति गुणप्राप्तिश्च र भवति। ____ अत्रैव विशेषं दर्शयति चउसरणगमण दुक्कडगरहा सुकडाणुमोयणा चेव । एस गणो अणवरयं कायव्वो कुसलहेउ त्ति ॥५०॥ चितुःशरणगमनं दुष्कृतगर्दा सुकृतानुमोदना चैव । । L एष गणोऽनवरतं कर्तव्यः कुशलहेतुरिति ॥५०॥ ] __ अचिन्त्य एवाऽऽयाति कर्मणामुदयः । अतः कल्याणकाङ्क्षिभिर्जनैः सदा कुशलानुष्ठानेष्वेव प्रवर्तितव्यम्, येन कर्मणामुपक्रमो-विनाशः स्यात् । तज्जायमानैरशुभपरिणामैश्च । र रक्षणमपि स्यात् । एतानि च सन्ति तानि कुशलानुष्ठानानि (१) चतुःशरणगमनम् - अर्हत्-सिद्ध-साधु-केवलिप्रज्ञप्तधर्म-इत्येतेषां चतुर्णा 0 शरणं ग्राह्यम् । गुणाधिकानां शरणग्रहणेनैव रक्षणं भवति । अर्हदादीनां शरणाङ्गीकरणेन 15 For तान् प्रति समर्पणश्रद्धादिभावेन क्लिष्टकर्मणामुपशान्तिर्भवति । कर्मणामुपशमेन च या शान्तिः प्राप्यते तदेव रक्षणम् । (२) दुष्कृतगर्हा - अनाभोगेनेच्छया वा स्वाचरितानां दुष्कृतानां संवेगभावापनेन चेतसा या जुगुप्सा-निन्दा वा सा दुष्कृतगर्दा । अर्हत्सिद्धादीनां शरण्यानां पुरत एषा ) करणीया । अनया चाऽनर्थानां परम्पराया अन्तो भवति कर्माणि च शिथिलबन्धनानि | भवन्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138