Book Title: Nandanvan Kalpataru 2004 00 SrNo 13
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
-
एतदेव स्पष्टयन्नाह
तल्लक्खणयोगाओ उ चित्तवित्तीणिरोहओ चेव । तह कुसलपवित्तीए मोक्खेण उ जोयणाओ त्ति ॥२२॥ एएसि पि य पायं बज्झाणायोगओ उ उचियम्मि । अणुठाणम्मि पवित्ती जायइ तह सुपरिसुद्ध त्ति ॥२३।। गुरुणा लिंगेहिं तओ, एऐसिं भूमिगं मुणेऊण । उवएसो दायव्वो जहोचियं ओसहाहरणा ॥२४॥
तल्लक्षणयोगादेव चित्तवृत्तिनिरोधतश्चैव । Lतथा कुशलप्रवृत्त्या मोक्षेण तु योजनादिति ॥२२॥ एतेषामपि च प्रायो बाह्याज्ञायोगत एवोचिते । अनुष्ठाने प्रवृत्ति-र्जायते तथा सुपरिशुद्धेति ॥२३।। गुरुणा लिङ्गैस्तत एतेषां भूमिकां ज्ञात्वा । 7
उपदेशो दातव्यो यथोचितमौषधोदाहरणात् ॥२४॥ भिन्नभिन्नप्रकारैर्योगलक्षणानि निर्दिष्टानि शास्त्रेषु । तानि सर्वाण्यापि लक्षणानिस 'मोक्षेण योजनाद् योगः' इति लक्षणे पर्यवस्यन्ति । अतश्चैतानि लक्षणानि यत्र सङ्घटन्ते । र तदनुष्ठानं योग उच्यते ।
अत्राऽपुनर्बन्धकादीनामनुष्ठानेषु "सर्वत्रोचितानुष्ठानं योगः" इत्येतल्लक्षणमुपपद्यते। एतेषां च जीवानां स्वस्वावस्थानुगुणश्चित्तवृत्तेनिरोधोऽपि भवत्येव । अतोः “योगश्चित्त2 वृत्तिनिरोधः' इत्येतल्लक्षणमपि सार्थकतां भजति । एवं चैते जीवास्तथाविधपरिणतिवशात् ।
कुशलानुष्ठानेष्वेव प्रवर्तन्ते । एवं चाऽत्र चित्तवृत्तिनिरोध-कुशलप्रवृत्त्यादिरूपेण योगलक्षणानांत का सङ्घटनादेतेषामनुष्ठानानि मोक्षेण योजकत्वाद् योगत्वेन निर्दिश्यत इति ।
किञ्च, अपुनर्बन्धकादीनामेतेषां जीवानां या तीव्रभावेन पापाकरणाद्यनुष्ठाने प्रवृत्तिर्जायते सा च प्रायशो बाह्याज्ञायोगात्-तीर्थकृद्वचनोपदेशादेव जायते न त्वनाभोगेनA अज्ञाततयेति । तथा तेषां चित्ते भगवन्तं प्रति दृढबहुमानं वर्ततेऽतस्तान्यनुष्ठानान्यत्यन्तं
विशुद्धानि भवन्ति ।
४७ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138