Book Title: Nandanvan Kalpataru 2004 00 SrNo 13
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 59
________________ प्रवर्तेत न कदाप्यहङ्कारावेगादशक्यानुष्ठाने प्रवर्तेत । स्वशक्तेर्मर्यादामवगम्यैव किमप्यनुष्ठानमारभेतेति । एते चारित्रवन्तोऽपि जीवाः सामायिकशुद्धिभेदतः - समताशुद्धिभेदादनेकप्रकारा भवन्ति । एषा सामायिकशुद्धिर्वीतरागाणामाज्ञामनुसृत्य जायते । चारित्रमोहनीयकर्मक्षयोपशमवैचित्र्यादेषाऽऽज्ञाऽपि भिन्न-भिन्नजीवेषु भिन्नभिन्नरूपेण परिणमति । कश्चिद् देशविरतिचारित्रमङ्गीकुरुते । तत्राऽपि सामायिकादीनामेकादशानां प्रतिमानां मध्यादेकद्वित्र्यादिप्रतिमाप्रतिपद्यमानका जीवा भवन्ति । कश्चिच्च सर्वविरतिं प्रतिपद्यते । तत्राऽपि सामायिकचारित्र- छेदोपस्थाप्यचारित्रादिभेदेन चारित्रवतां भेदोऽस्ति । सर्वभेदानामन्ते क्षायिकवीतरागोऽस्ति । एसो सामाइयसुद्धिभेयओ गहा मुणेयव्वो । आणापरिणइभेया अंते जा वीयरागो त्ति ||१६|| एष सामायिकशुद्धिभेदतोऽनेकधा मन्तव्यः । . आज्ञापरिणतिभेदादन्ते यावद् वीतराग इति ||१६|| एतेषामपुनर्बन्धकानामनुष्ठानानां योगत्वं दर्शयति Jain Education International एएसि णियणियभूमियाए उचियं जमेत्थऽणुट्ठाणं । आणामयसंयुत्तं तं सव्वं चेव योगो त्ति ॥ २१ ॥ '] एतेषां निजनिजभूमिकाया उचितं यदत्राऽनुष्ठानम् - आज्ञामृतसंयुक्तं तत् सर्वमेव योग इति ॥ २१ ॥ आप्तसम्मतमेवाऽनुष्ठानं योगत्वमाप्नोति । अतश्चाऽपुनर्बन्धकादिजीवाः स्वस्वभूमिकानुरूपमाप्तस्य जिनेश्वरस्याऽऽज्ञामृतेन युक्तं यत्किमप्यनुष्ठानजातं कुर्वन्ति तत्सर्वमपि योग इत्युच्यते । यद्यपि मिथ्यात्वाख्यप्रथमगुणस्थानकस्थितानामपुनर्बन्धकजीवानां तीर्थकराद्यातपुरुषाणां परिचयाभावादाज्ञायोगो नास्ति तथापि तीव्रभावेन पापाकरणादिरूपा या परिणतिरस्ति सैवाऽऽज्ञामृतसंयोग उच्यते । यतो बाह्याज्ञायोगोऽप्येतादृश्या: परिणतेरेव कारणं भवति । ४६ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138