Book Title: Nandanvan Kalpataru 2004 00 SrNo 13
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
-
-
(२) जनवादावगमः-स्वरीत्या निजस्वभावस्याऽऽलोचनानन्तरं मनुष्यो बुधजनानामभिप्रायं ज्ञातुमपि प्रयतते । यतः स्वोद्देशेन स्वयमेव कृतं स्वभावालोचनं कदाचिद् र 3वितथमपि स्यात् । अतो-जनानां मद्विषयकोऽभिप्रायः कीदृशः ? मयि योग्यताया किं 15 PM प्रमाणं ते निर्धारयन्ति ? किं च गुणस्थानकमधिकृत्य मम योग्यतां ते सम्भावयन्ति ?का इत्यादि स चिन्तयेत् ।।
(३) योगशुद्धिः-मम मनो-वचः-काययोगाः कीदृशाः ? तेषां शुद्धिः कीदृशी? FO कस्य गुणस्थानकस्याऽङ्गीकरणे मया प्रयतितव्यमिति ।
अथाऽग्रिमगुणस्थानकस्य प्रतिपत्तिः कथं विधेया ?-इत्येतदाहएत्थ उवाओ च इमो सुहदव्वाइसमवायमासज्ज । पडिवज्जइ गुणठाणं सुगुरुसमीवम्मि विहिणा तु ॥४२॥ वंदणमाई उ विही निमित्तसुद्धी पहाणमो णेओ ।। सम्मं अवेक्खियव्वा एसा इहरा विही ण भवे ॥४३॥ | अनोपायश्चाऽयं शुभद्रव्यादिसमवायमासाद्य । Lप्रतिपद्यते गुणस्थानं सुगुरुसमीपे विधिना तु ॥४२।। वन्दनादिः पुनर्विधिनिमित्तशुद्धिः प्रधानं ज्ञेयः । 1
सम्यगपेक्षितव्यैषेतरथा विधिर्न भवेत् ॥४३॥ ] एवं च निर्दिष्टोपायैः सम्यक् स्वोचितत्वं विज्ञाय शुद्धद्रव्य-क्षेत्र-काल-भावमाश्रित्य सद्गुरुसमीपे विधिपूर्वकं नवगुणस्थानकमङ्गीकुर्यात्, अर्थाद् योऽपुनर्बन्धकः स सम्यक्त्वं गृह्णीयात्, सम्यक्त्वी च श्रावकस्य द्वादशव्रतग्रहणरूपं देशवरतिधर्म स्वीकुर्यात्, देश- 1 विरतिधरश्च पञ्चमहाव्रतात्मकं साधुधर्मं प्रतिपद्येतेति ।
अत्र विधौ सद्गुरुसमीपे विधिपूर्वकं चेत्येतद् द्वयं निर्दिष्टमस्ति । तत्र-यो । गुणाधिकोऽस्ति तत्समीपे एव व्रतादिकं ग्रहणीयम् । यतस्तादृशो गुणवत आत्मनश्चेतनाशक्ते
व्रतग्राहकजने आधानं भवति येन च तस्मिन् शुभभावानां प्राबल्यं स्यात्, ततश्च तद्विकासोऽपि 2) शीघ्रः फलदायी च स्यात् । अतः 'सद्गुरुसमीपे' इत्युक्तम् ।
५२ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138