Book Title: Nandanvan Kalpataru 2004 00 SrNo 11
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 50
________________ RSPRE IT विकथास्वरूपाणां पञ्चानाम् अपि प्रमादानां सन्त्यागः, १६. अविरोधिनः लोकव्यवहारस्य पालनम्, १७. सर्वत्र औचित्यस्य पालनम्, १८. प्राणत्यागेऽपि निन्द्यप्रवृत्तीनां त्यागः - इति सदाचारप्रकाशः । लोकापवादभीरुत्वं, दीनाभ्युद्धरणादर: । कृतज्ञता सुदाक्षिण्यं, सदाचार: प्रकीर्तितः ॥१२६॥ सर्वत्र निन्दासत्यागो, वर्णवादश्च साधुषु । आपद्यदैन्यमत्यन्तं, तद्वत्सम्पदि नम्रता ॥१२७॥ प्रस्तावे मितभाषित्व-मविसंवादनं तथा । प्रतिपन्नक्रिया चेति, कुलधर्मानुपालनम् ॥१२८॥ असद्व्ययपरित्यागः, स्थाने चैतक्रिया सदा । प्रधानकार्ये निर्बन्धः, प्रमादस्य विवर्जनम् ॥१२९॥ लोकाचारनुवृत्तिश्च, सर्वत्रौचित्यपालनम् । प्रवृत्तिर्हिते नेति, प्राणैः कण्ठगतैरपि ॥१३०॥ (३) तपः तपोऽपि च यथाशक्ति, कर्तव्यं पापतापनम् । तच्च चान्द्रायणं कृच्छ्रे, मृत्युघ्नं पापसूदनम् ॥१३१॥ योगमार्गप्रवेशेप्सुभिः कर्मविघातकृत् तपः अपि स्वशक्त्यनुरूपम् आचरणीयम् । RATE यतः तपसा मोहादिकर्मणां प्रभावः मन्दः सञ्जायते । एवं च सञ्जातनिर्मलचित्तः जनः सौकर्येण योगमार्गं प्रविशति । अत्र चतुष्प्रकारकं तपः दर्शितम् अस्ति, तद्यथा-चान्द्रायणं, ( कृच्छं, मृत्युघ्नं, पापसूदनं च इति । तत्र १. चान्द्रायणतपसः विधिः - एकैकं वर्धयेद् ग्रासं, शुक्ले कृष्णे च हापयेत् । भुञ्जीत नामावास्याया-मेष चान्द्रायणो विधिः ॥१३२॥ MNANDAN ३७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130