Book Title: Nandanvan Kalpataru 2004 00 SrNo 11
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
अपायः नाम पूर्वस्मिन् काले उपार्जितानि नानाविधानि अवश्यभोग्यानि चित्ते च पापवृत्त्युत्पादकानि कर्माणि । तानि एव अपायभूतानि सन्ति ।
अत्र मतान्तरं दर्शयति मोक्षमार्गे प्रवृत्तानाम् आत्मनां ये कण्टक- ज्वरमोहतुल्याः विघ्नाः सन्ति ते एव अपाया: इति ।
-
यथा स्वेष्टस्थानगमनप्रवृत्तानां केषाञ्चित् जनानां मार्गे कण्टकाः विलगन्ति केचित् तु ज्वरग्रस्ताः भवन्ति, केचित् च दिग्भ्रान्त्या अन्यस्यां दिशि गच्छन्ति । एवं च इष्टस्थानप्राप्तौ अनुक्रमेण स्तोकस्य बहोः बहुतरस्य च कालस्य विलम्बः भवति । तथैव योगमार्गप्रवृत्तानाम् अपि विचित्रकर्मोदयात् जघन्य -- मध्यमो - त्कृष्टस्वरूपाः त्रिप्रकाराः विघ्नाः जायन्ते । एते विघ्नाः एव अपायाः इति उच्यन्ते ।
अस्यैव त्वनपायस्य, सानुबन्धस्तथा स्मृतः । यथोदितक्रमेणैव, सापायस्य तथाऽपरः ॥३७२॥ अपायमाहुः कर्मैव, निरपायाः पुरातनम् । पापाशयकरं चित्रं, निरुपक्रमसंज्ञकम् ॥ ३७३ ॥ कण्टक ज्वरमोहैस्तु, समो विघ्नः प्रकीर्तितः । मोक्षमार्गप्रवृत्ताना- मत एवाऽपरैरपि ॥ ३७४ ॥
सास्त्रवानास्त्रवभेदौ – अपाययुक्तानां योगिनाम् अनेकभवपरम्परायाः कारणरूपः सास्त्रवयोगः भवति । यतः निरुपक्रमकर्माणि पापाशयकराणि च कर्माणि अवश्यं भोक्तव्यानि भवन्ति । यत्र च प्रवर्तमानः एकः एव भवः अस्ति सः अनास्त्रवयोगः इति उच्यते ।
आस्रवस्य कर्मबन्धहेतुत्वात् सः अपि बन्धः एव । सः च बन्धः साम्परायिकबन्धः इति कथ्यते । साम्परायिकबन्धः नाम कषायनिमित्तैः जायमानः बन्धः । अतः एव च आस्रवस्य साम्परायिकबन्धः इति अर्थः अपि सङ्गतः एव ।
Jain Education International
ये च चरमशरीरिण: जीवाः तेषु कषायाणाम् अभावात् अन्येषाम् आस्रवाणाम् अपि अभावः अस्ति । अतः च तेषाम् अनास्रवयोगः भवति ।
५०
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130