Book Title: Nandanvan Kalpataru 2004 00 SrNo 11
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 94
________________ (२) ANANE -3500- treaministration आर्यनागसेन ! युष्मादृशाम् एकान्तवासिनां विरक्तानां च किं शरीरे रागः भवेत् कदाचित् ? नहि महाराज !, विरक्ताः शरीरे आसक्ताः न भवन्ति ।। ननु तर्हि किमिति ते शरीरं पोषयन्ति ? किमर्थं च तस्य रक्षणादिकं कुर्वन्ति ? भवन्तः यदा युद्धं गच्छन्ति युध्यन्ते च शत्रुभिः तदा किं कदा अपि शस्त्रप्रहारैः व्रणिताः भवन्ति वा ? आम् ! नैकधा भवामः । तदात्वे महाराज ! भवतां व्रणानि औषधैः सज्जीकृत्य तैलादिभिः च आर्दीकृत्य पट्टिकासु बध्यन्ते न वा ? अवश्यं बध्यन्ते, तद्रक्षणम् अपि क्रियते ।। तर्हि किं भवतां व्रणाः प्रियाः भवन्ति ? येन भवन्तः तेषाम् अति जागरूकतया रक्षणं कुर्वन्ति ? न एवम् आर्य ! व्रणाः तु न एव प्रियाः अस्माकम् । किन्तु एवंकरणेन ते शीघ्रतया सज्जाः भवेयुः तथा तत्स्थाने नूतना त्वक् आविर्भवेद् इति एव एतत् सर्वं FA क्रियते । तर्हि महाराज ! अयम् एव न्यायः विरक्तैः अपि आश्रीयते । न हि ते शरीरे विलग्नाः आसक्ताः भवन्ति । किन्तु निर्मलस्य निरामयस्य च जीवनस्य कृते एव शरीरं पा पोषयन्ति । भगवता बुद्धेन इदं शरीरं व्रणोपमं वर्णितम् । भिक्षवः हि अतः एव शरीरं सहन्ते पोषयन्ति रक्षन्ति च, किन्तु सर्वथा अनासक्तभावेन । शोभनम् उक्तं भवता आर्य ! ।। ८१ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130