Book Title: Nandanvan Kalpataru 2004 00 SrNo 11
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 110
________________ अण्टोनियः तर्हि कृतं धनेन । निर्धनः अपि युवा तादृशीं युवतीं परिणेतुं प्रभवति । बेस्सानियः आम् आम् सखे !, तथा अपि सुविदितम् इदम् “रिक्त: सर्वो भवति हि लघुः पूर्णता गौरवाय" ॥ किं च, निकटवर्तिनि बेल्माण्ट्नगरे निवसन्तीम् अतिलावण्यवतीं कोट्यधिपतिकुमारीम् अहं परिणेतुम् उत्सुकः अस्मि । तत्र विवाहोत्सव-निर्वहणाय न्यूनातिन्यूनं स्वर्णमुद्राणां सहस्रम् अवश्यम् अपेक्ष्यते । किं वा करवाणि सखे ! ? केन उपायेन तत् लभेय ? नूनं त्वम् अत्र मे शरण्य इति मन्ये । अण्टोनियः धननिमित्ता चिन्ता कुत: ? सखे ! उपगच्छ तं वेनिस्-नगरे विश्रुतं शैलाक - नाम - कुसीदकं, यः अवश्यं त्वदपेक्षितं धनम् ऋणरूपेण ते दास्यति। निवेदय तस्मिन् यत् मासत्रयेण एव मम वाणिज्यनौका: प्रतिनिवर्त्स्यन्ते तदा च ऋणम् अपाकरिष्यते । बेस्सानियः असंशयं मित्र !, शैलाकः हि प्रभूतधनवान् अस्ति । धनं च मे उपपादयितुं सर्वथा समर्थः अस्ति । किन्तु सः असौ गृध्रापसदः त्वां नितरां द्वेष्टि । यत: हि पुरा त्वं तस्य गृध्रतां लुब्धतां च कटुतया 'निर्घृणी रक्तपिपासुः' इत्यादिकठोरशब्दैः निन्दितवान् असि । सः असौ त्वयि प्रतिकर्तुं सदा प्रयतमानः अस्ति । एवं सति अहं कथं तं धूर्तापसदं धनसाह्याय याचेयम् ? अण्टोनियः मा एवं सखे !, मा अस्तु चिन्ता । लोके सर्वथा दोषरहितान् न एव पश्यामः । तेजस्वी अग्निः अपि धूमेन समावृतः । कान्तम् अपि सुवर्णं कल्मषात् न एव मुक्तम् । राकाचन्द्रमाः अपि कलङ्कं धत्ते । एवं सति कुसीदवृत्तिम् अनुसन्दधत्सु निर्धनेभ्यः स्वार्थलाभाय द्रुह्यत्सु निर्घृणेषु निर्दोषता कथं वा संभवेत् ? न एव खलु ? तत् तम् उपगच्छ शीघ्रम् । इष्टं च साधय । Jain Education International ९७ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130