Book Title: Nandanvan Kalpataru 2004 00 SrNo 11
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
समागच्छति।
बेस्सानियः स्वर्णपुत्थलीसदृश्या पोर्षियया सह सुखं निवसति । अथ एकदा कुतश्चित् आगतं पत्रम् एकं पठित्वा सः दिग्भ्रान्तः निस्तेजस्कः स्तब्धः च सञ्जातः । तादृशं तं वीक्ष्य-] पोर्षिया (सकुतुकं) नाथ ! अहं ननु तव सहधर्मिणी । अतः यद् अपि स्यात् नाम
तत्र पत्रे, मह्यम् अपि तत् श्रावय । या भर्तुः सुखे दुःखे च समानम् एव सहभागित्वं वहति सा एव सहधर्मिणी भवितुम् अर्हति । आवयोः मध्ये परस्परं गूहनीयः विचारः संभवेत् वा कदाचित् ? अतः आवेदय
पत्रलिखितम् ।' बेस्सानियः प्रिये ! अत्र पत्रे काचित् अनिष्टतमा वार्ता पठिता । यत् - अण्टोनियस्य
षड् अपि वाणिज्यनौकाः बहुमूल्यसामग्रीभृताः समुद्रमध्ये चक्रवातग्रस्ताः सन्त्यः निमग्नाः । ताभिः सह अण्टोनियस्य धनादिसर्वस्वम् अपि विनष्टम् । इदानीं कथम् अहं गृध्रकुसीदकं शैलाकं निभालयानि ? स: हि निघृणः निष्ठुरस्वभावः अण्टोनियस्य प्रतीकारसाधनाय नितरां प्रयत्नरतः अस्ति । अण्टोनियं सः परमशत्रु मन्यते । यतः पूर्वं तस्य शैलाकस्य एकमात्रपुत्री जेस्सिकानाम्नी तेन कृच्छ्रेण सञ्चितं धनकनकादिकं यथेच्छम् अपहृत्य अण्टोनियस्य सखायं लोरेन्जो इत्यने परिणीय तेन सह लोकविहाराय निर्जगाम । तत्प्रभृति शैलाक: उन्मत्तः इव वेनिस्-नगरवीथिषु सोद्वेगं अश्रूणि मुञ्चन् स्वोरसि प्रहरन् विकीर्णकेशः पथिकान् उद्दिश्य 'अन्वेषयत गृह्णीत तां मे दुष्टपुत्री, प्रापय मे ततः मम कृच्छ्राजितं धनम्' इत्यादि प्रलपन् परिभ्रमति । तथा इतः जेस्सिकाः लोरेन्जोदम्पत्योः अण्टोनियेन सह स्नेहसम्बन्धः सर्वथा विजृम्भते । एवं सति कथं वा शैलाक: अण्टोनियं क्षमते ? न एव खलु?
वैरेण तस्मै मन्मित्रस्य अण्टोनियस्य प्रतीकारम् एव साधयिष्यति सः । धिङ् मां मित्रविश्वासघातिनम् । तथा मम परमसुहृत्सखम् अण्टोनियम् एवं दुःखसागरे निमज्जय्य कथं वा जीवेयं प्रिये !? [दूयमानचित्तः सः तिष्ठति । पोर्षिया च तं यथामति सान्त्वयति ।]
0818eeeeeeeee181eeee18e81eeee
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130