Book Title: Nandanvan Kalpataru 2004 00 SrNo 11
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 115
________________ चतुर्थं दृश्यम् । वेनिस्-नगरे राजसौधः ।। ड्यूक्-नरेशः सिंहासनारूढः ॥ [शैलाकः अण्टोनियस्य नौकादुरन्तम् आवेदितः भृशम् उद्विग्नः, अण्टोनियेन ॐ नष्टसर्वस्वेन ऋणप्रतिनिवर्तनं सर्वथा अशक्यम् अतः वैरस्य निर्यातनं साधयिष्यते मया ल इति हृष्टः च अण्टोनियं विरुद्ध्य न्यायालये न्यायदानाय ड्यूक्-नरेशम् अभ्यर्थयितुं मनः . कृत्वा-] शैलाकः प्रभो ! सम्राजम् अभिवादये । अण्टोनियः मत्तः गृहीतं स्वर्णमुद्रासहस्रमितं धनं प्रतिश्रुतानुसारं मासत्रयावधौ न एव प्रत्यार्पयत् । अतः प्रभो ! प्रमाणपत्रे प्रतिज्ञातानुसारं तस्य शरीरात् पौण्डमितं मांसपिण्डं छित्त्वा जिघृक्षामि ।। ड्यूक्नरेशःभोः भोः शैलाक ! न एतद् युक्तं भवदध्यवसितं क्रूर-निघृणकृत्यम् । कृपया काञ्चित् दयां धेहि तस्मिन् निःसहाये वराके । ननु प्रकृतिकोपनिमित्तं , ऋणप्रत्यर्पणासामर्थ्यं तस्य अण्टोनियस्य समापन्नं, एतावता न असौ महान् ल. अपराधः भवति । तथा त्वं सुष्ठ जानासि यत् 'धनेन दानवः दयया ] मानवः' इति बुधजनबोधितां शीलसंहिताम् । धनं नाम भोगस्य साधनमात्रं न तु तद् एव मानवस्य परमपुरुषार्थः । अतः यत् किञ्चित् धनं तेन प्रत्यर्पयिष्यमाणं गृहीत्वा सन्तुष्टः भव । किन्तु तस्य वराकस्य शरीरात् मांसपिण्डच्छेदनेन तस्य प्राणहरणात् विरम् भोः ! शैलाकः न प्रभो ! न एव । न अहं द्विगुणं त्रिगुणं वा, शतगुणं सहस्रगुणं वा अपि धनम् अभिलषामि । केवलं मद्वैरिणः शरीरात् पौण्डमितं मांसपिण्डं विहाय न अन्यत् किञ्चिद् वरये । ड्यूक्नरेशःभोः ! आत्मा हि सर्वान्तर्यामी, एकः एव विभिन्न इव दृश्यमानेषु प्राणिदेहेषु, मणिगणेषु सूत्रम् इव, वृक्षस्य विभिन्नशाखा-पर्ण-पल्लव-प्रसूनेषु रसः इव, तरङ्ग-फेन-बुद्बुदादिषु सलिलम् इव विराजते । यथा शरीरहिंसनं प्राणघातनं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130