Book Title: Nandanvan Kalpataru 2004 00 SrNo 11
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 121
________________ प्राणैः किं वा साधनीयम् ? मम प्राणान् अपि गृह्णीध्वम् । न्यायमूर्तिः (अण्टोनियम् उद्दिश्य) भोः ! सद्यः तस्य यहूदिनः शैलाकस्य धनकनकादिसर्वस्वं त्वदधीनं भविष्यति । सः अयं क्रूरः निष्करुणः अधुना नष्टसर्वस्वः सञ्जातः । किन्तु त्वं यदि इच्छसि तहि अस्मिन् दयां विधातुम् 6 अर्हसि । ॐ अण्टोनियः (खिन्नं दीनं च शैलाकं दृष्ट्वा करुणया) प्रभो ! न अहं तस्य धनकनकादिकं द्रव्यं वाञ्छामि । तत् मया अयं तस्मात् निर्णयात् प्रतिनिवर्त्यते यदि असौ मत्कृतं समयम् एकं सम्मंस्यते । यथा- स्वजीवितकाले कामं स: नैजं सर्वस्वं स्वायत्तम् उपभुज्यताम् । किन्तु स्वस्य मरणशासने (will) तेन "सर्वस्वं मम धनं मम मरणानन्तरं मत्पुत्र्यै जेस्सिकायै तत्पतये लोरेन्जो इत्यस्मै च प्रदातव्यम्" इति सुस्पष्टं लेखितव्यम् । न्यायमूर्तिः अपि तुष्टः असि शैलाक ! ? अपि सम्मतः तव अयं समय: ? शैलाकः आम् आम्, सर्वथा सम्मतः अयं समयः मम । अथ कृपया इतः अहं निर्गन्तुम् अनुज्ञायताम् । अन्यत् किञ्चिद् अपि न अपेक्षे । यतः अधुना 0 ज्वरतापः मां किञ्चिद् बाधते । अतः विश्रान्तिम् इच्छामि । तथा यद् अपि मया लेखितव्यं मम मरणशासने (will) तद् अहम् अवश्यं लेखिष्यामि । कृपया प्रेष्यन्तां मे तत्सम्बन्धिपत्राणि । [शैलाकः सत्वरं न्यायालयात् निर्गच्छति ।] पञ्चमं दृश्यम् [अण्टोनिय-बेस्सानियौ तस्मै सर्वापदाम् अपहत्रे, सर्वसम्पत्प्रदात्रे, सङ्कटमोचकाय, भाग्यविधात्रे च न्यायमूर्तये भूयः भूयः नमांसि अभिनन्दनानि च व्याहरन्तः ।] ॐ बेस्सानियः स्वामिन् ! दयालो ! आपृच्छन्तौ आवाम् अनुज्ञायेताम् । पुनः मिलामः । तथा गृह्यतां धनम् इदं यद् अण्टोनियः शैलाकाय अधारयत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130