Book Title: Nandanvan Kalpataru 2004 00 SrNo 11
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
अपराधं तस्य क्षन्तुम् अर्हसि ।
पोर्षिया (अङ्गुलीयकं पत्ये प्रयच्छन्ती अण्टोनियम् उद्दिश्य - ) इदम् अङ्गुलीयकं तव मित्राय प्रयच्छ । तथा एनत् प्रणष्टाद् अङ्गुलीयकात् अधिकं सावधानतया रक्षणीयम् इति तं सुष्ठु प्रबोधय ।
[बेस्सानिय: अङ्गुलीयकं निपुणं वीक्ष्य 'अहो ! एतत् तु तद् एव यत् न्यायालये न्यायवादिने उपहारीकृतम्' इति प्रत्यभिज्ञाय च विस्मयापन्नः पोषियायाः मुखं निरीक्षते । पोर्षिया तं समादधती -]
पोर्षिया पश्य पश्य नाथ ! इदं पत्रं, यस्मिन् अहं अण्टोनिय-शैलाकप्रकरणे न्यायवादित्वेन नियुक्ता इति निर्दिष्टम् अस्ति ।
Jain Education International
-
बेस्सानियः (साश्चर्यम्) अहो ! तत्र न्यायालये उपस्थिता मन्मित्रस्य प्राणदात्री सङ्कटविमोचयित्री, तथा माम् अपि विश्वासघातमहापातकात् रक्षित्री छद्मवेषधृतवती सा त्वम् एव वा ? नूनं सम्भ्रान्तः अस्मि । अहो ! वेषधारणकौशल्यं समयस्फूर्तिसामर्थ्यं च स्त्रीणाम् !!
[ हर्षपुलकिता: सर्वे निष्क्रामन्ति । ]
" धनेन दानवः दयया मानव:" इति भावरूपकं समाप्तम् ॥
सर्वेऽपि सुखिन: सन्तु सर्वे सन्तु निरामयाः । लोकोऽयं भयमुक्तोऽस्तु सर्वं भवतु मङ्गलम् ॥
दुःखात्मकेषु विषयेषु सुखाभिमानः
सौख्यात्मकेषु नियमादिषु दुःखबुद्धिः ।
उत्कीर्णवर्णपदपङ्क्तिरिवाऽन्यरूपा
सारूप्यमेति विपरीतगतिप्रयोगात् । (शीलाङ्काचार्यकृतायाम्-आचाराङ्गवृत्तौ)
११०
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130