Book Title: Nandanvan Kalpataru 2004 00 SrNo 11
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 112
________________ [ अचिराद् एव शैलाकम् उपगम्य यथानिगदितं प्रमाणपत्रम् आनीय अण्टोनियस्य हस्ताक्षरैः अङ्कयित्वा तदाधारेण च शैलाकसकाशात् धनं गृहीत्वा बेस्सानियः अण्टोनियम् उपसर्पति । अनन्तान् च धन्यवादान् तस्मै सुहृत्सखाय व्याहरति ।] बेस्सानियः सखे ! मयि तव सौहार्द कैः वा शब्दैः वर्णयेयम् ? सत्यम् उक्तं हि बुधजनै: पापान्निवारयति योजयते हिताय गुह्यं निगूहति गुणान् प्रकटीकरोति । इष्टं प्रयच्छति च कामधुगेव नूनं किं किं न साधयति कल्पलतैव सख्यम् ॥ तृतीयं दृश्यम् 1 [बेल्माण्ट्नगरम् । पोषियायाः पाणिग्रहणाय संभावितानां बहूनां स्पर्धा उपस्थिता अस्ति । यत: हि तस्याः पोषियायाः दिवङ्गतः पिता कोट्यधिपतिः स्वलिखिते मृत्युपत्रे (will) स्वार्जितं सर्वस्वं धनकनकादिद्रव्यं पोषियायै स्वस्य एकमात्रप्रियपुत्र्यै उत्तराधिकारिण्यै प्रादात् । तस्याः पोषियायाः प्रचुरधनस्वाम्यं परिलक्ष्य तस्याः पाणिग्रहणापेक्षया समागच्छत्सु अयोग्यान् कन्यापेक्षिणः निवारयितुकामः मृत्युपत्रलेखनसमये विचित्रम् एकं निबन्धनं विहितवान् आसीत्, यत् - " विवाहमण्डपे स्वर्णमयी रजतमयी अयोमयी च इति तिस्रः पेटिका: लाक्षामुद्रया पिहिताः स्थापयितव्याः । तत्र एकस्याम् एव पेटिकायां पोषियायाः भावचित्रं निक्षेप्तव्यम् । ततः यः कः अपि कन्यार्थी वध्वाः भावचित्रं दधतीं पेटिकां वृणुयात् सः एव तस्याः पतिः भवति ।" इति । अथ तत्र पाणिग्रहणसमारोहे प्रवृत्ते प्रप्रथमं मोरक्को - नाम - आफ्रिकीयराष्ट्रस्य राजकुमारः धनपतिसदृशः कोटीश्वरः अभ्यागच्छति । तत्र च प्रतिष्ठापितासु तिसृषु पेटिकासु सः सुपरीक्ष्य स्वेच्छया स्वर्णमयीं पेटिकां वृणोति यस्याः उपरि लिखितम् Jain Education International ९९ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130