Book Title: Nandanvan Kalpataru 2004 00 SrNo 11
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 109
________________ (भूमिका : पुरा इटलीदेशस्य विश्रुते वेनिस्-नगरे अण्टोनियः नाम वणिग्वर्यः 6 निवसति स्म । सः च दूरविदूरदेशीयैः सह समुद्रयानमुखेन बृहन्नौकासु खाद्यवस्त्राभरणादिबहुमूल्यानां सामग्रीणाम् आयात-निर्यातवाणिज्यं प्रचालयति स्म । धनिकः अपि स सरलजीवी उदारस्वभाव: बहुजनप्रियः च आसीत् । अण्टोनियस्य प्रियसुहृत् बेस्सानियः नाम योध: निकटवर्तिनि बेल्माण्ट-नामनगरे निवसन्त्यां पोर्षिया-नाम्न्यां सुरूपलावण्यवत्यां ललनायां गाढानुरक्तः आसीत् । परं तस्याः सुन्दरीमण्याः पाणिग्रहणाय अवश्यमुपपादयितव्यस्य कन्याशुल्कस्य स्वर्णमुद्राणां सहस्रस्य उपपादने सः असमर्थः आसीत् । अतः सुहृत्सखाय अण्टोनियाय धनसाहाय्यं । याचितुकामः सः कदाचित् राजोद्याने तेन सह विहरन् स्वोद्दिष्टं तस्मै प्रास्तवीत् ।) - प्रथमं दृश्यम् : बेस्सानियः मित्र ! कश्चिद् युवा सर्वथा समर्थः तेजस्वी मेधावी शीलसम्पन्नः च . लावण्यवती कोट्यधिपतिदुहितरं श्रीमती प्रीणाति । तां च परिणेतुम् उत्सुकः अस्ति । परं सः असौ युवा यद्यपि न दरिद्रः तथा अपि न धनिकः अपि । तेन हि परिणयसिद्ध्यै किं वा करणीयम् ? इति जिज्ञासामि । अण्टोनियः सखे ! सुष्ठ जानासि यत् ययोरेव समं वित्तं ययोरेव समं कुलम् । तयोमैत्री विवाहश्च न तु पुष्टविपुष्टयोः ॥ अपि च, सा युवती यदि धनपतिम् एव परिणिनीषति, क्व अस्ति । पृथग्जनस्य त्वादृशस्य अवकाशः ? बेस्सानियः यदि सा न केवलं लावण्यवती, अपि तु शीलवती बुद्धिमती च भवेत् 0 तदा नूनं सा न कोट्यधिपतिं परिणिनीषेत् । किन्तु विवेकिनं शीलसम्पन्न च कञ्चित् परिणिनीषेत् खलु ? Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130