Book Title: Nandanvan Kalpataru 2004 00 SrNo 11
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 102
________________ Ko किन्न FO कृतवान् ? शालायां तु सः शिक्षकः आसीत् । बहुकष्टेन आजीविका निर्वहति स्म सः। कि Ko एवं सत्यपि मम अभ्यासार्थं तेन कियान् श्रमः निर्वोढः ! स्वकीयाम् आवश्यकताम् र अपि सङ्कोच्य मम अभ्यासार्थं धनव्ययः कृतः । एकेन एव वस्त्रयुगलेन कथम् अपिल स: वर्षं यापयति स्म । एतावत्पर्यन्तं तेन स्वकीया आवश्यकता गौणीकृता आसीत् । हो। पश्चात मम विवाहादि कार्यम अपि तेन निर्वर्तितम । पश्चाच्च रमायाः आभरणविषयकायाः Fol अभिरुचे: पोषणार्थम् आजीवनं श्रमं कृत्वा सञ्चितं धनम् अपि निःसङ्कोचं दत्तवान् । | किञ्च, अहं तु कीदृशः ? अद्यावधि कदापि काऽपि इच्छा तेन मम पुरतः न प्रकटिता। For मम प्रसन्नतायाम् एव स्वप्रसन्नतायाः समावेशः तेन कृतः । अद्य तु प्रथमम् एव अहम् । उपनेत्रार्थं सूचितः । तदपि नेत्रयोः व्याधेः कारणात् न तु स्वरुचिपोषणार्थम् । तादृशी सामान्या अपि आवश्यकता तस्य मया न पूरिता ? अनिवार्ये अपि तत्कार्ये व्याजाः प्रदर्शिताः मया ? कीदृशः कृतघ्नः अहम् ?" इति । एवं विचारयतः तस्य समक्षं विना उपनेत्रम् इतः ततः स्खलतः पततः व्यथां च अनुभवतः स्ववृद्धपितुः मूर्तिः आगता । प्रवासादिकात् मनोरञ्जकात् कार्यक्रमात् तस्य मन: प्रतिनिवृत्तम् । अथ लघुः अपि प्रसङ्गः सहजम् एव पितुः एव साक्षात्कारं जनयति स्म । तस्य हृदयम् एव तं पीडयति स्म । प्रवासं समाप्य कदा गृहं प्राप्नुयाम् - इति अधैर्यं जातं तस्य । स्वकृत्यार्थं ग्लानिम् अनुभवति स्म सः । अतः 'गृहं गत्वा सर्वप्रथमं पितुः नेत्रयोः चिकित्साम् एव कारयिष्यामि' इति अचिन्तयत् । अस्मिन् चिन्तने एव गृहं प्राप्य तेन विद्युद्धण्टिका वादिता । स्वस्य अपराधात् मुक्त: भवितुं तस्य आकाङ्क्षा उद्दीप्ता जाता आसीत् । क्षणेन द्वारम् उद्घटितम् । 2 वात्सल्यं वर्षयन् पिता एव तस्य समक्षम् उपस्थितः आसीत् । परन्तु किम् एतत्....? - नवीनम् अपनेत्रं तस्य मुखे शोभमानम् आसीत् । तद् दृष्ट्वा तस्य चित्तं पुनः विचारचके पतितम् । पिता तु तम् आगतं दृष्ट्वा एव प्रसन्नीभूय कुशलवार्ता प्रष्टुं लग्न: - 'अहो ! म - अहो ! आगतः त्वम् ? आगच्छतु आगच्छतु । कीदृशः जातः प्रवास: ? काऽपि प्रतिकूलता तु न अनुभूता खलु ? इदानीं शीतकाल: प्रवर्तते अतः ततः रक्षणार्थं पर्याप्त F, वस्त्रादिकं नीतं न वा ?' इत्यादि । किन्तु एकः अपि तस्य शब्दः तस्य कर्णम् उल्लङ्घ्य ८९ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130