Book Title: Nandanvan Kalpataru 2004 00 SrNo 11
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 76
________________ 2ब्रह्म इति योगविदः वदन्ति । किं चाऽन्यद् योगतः स्थैर्य, धैर्यं श्रद्धा च जायते । मैत्री जनप्रियत्वं च, प्रतिभं तत्त्वभासनम् ॥५२॥ विनिवृत्ताग्रहत्वं च, तथा द्वन्द्वसहिष्णुता । तदभावश्च लाभश्च, बाह्यानां कालसङ्गतः ॥५३॥ धृतिः क्षमा सदाचारो, योगवृद्धिः शुभोदया । आदेयता गुरुत्वं च, शमसौख्यमनुत्तम् ॥५४॥ योगस्यैतत्फलं मुख्य-मैकान्तिकमनुत्तरम् । आत्यन्तिकं परं ब्रह्म, योगविनिरुदाहृतम् ॥५०६॥ अतः एव च विद्वत्ताफलकाङ्क्षिभिः बुद्धिमद्भिः जनैः एषा सद्गोचरादिसंशुद्धिः आलोचनीया । तदनु च एषा यदि योग्या प्रतिभासेत तर्हि स्वीकरणीया अपि । अर्थात् योगमार्गे श्रद्धा अपि कर्तव्या, आचरणम् अपि कर्तव्यम् । यतः सद्योगस्य अभ्यासः एव विद्वत्तायाः फलम् अस्ति, न अन्यत् किम् अपि । योगाभ्यासं विना तु शास्त्राणि अपि संसाररूपाणि एव इति निर्मलमतीनां शास्त्रविदाम् आशयः । यथा सज्ज्ञानरहितानां मूढात्मनां कृते पुत्रपुत्र्यादिसंसारः भवति तथा सद्योगरहितानां विदुषां कृते अपि शास्त्राणि एव संसाररूपाणि सन्ति । अतः एव च पण्डितजनैः योगमार्गेण यतितव्यम् । सद्गोचरादिसंशुद्धि-रेषाऽऽलोच्येह धीधनैः । साध्वी चेत्प्रतिपत्तव्या, विद्वत्ताफलकाक्षिभिः ॥५०७॥ विद्वत्तायाः फलं नाऽन्यत्, सद्योगाभ्यासतः परम् । तथा च शास्त्रसंसार, उक्तो विमलबुद्धिभिः ॥५०८॥ पुत्रदारादिसंसारः, पुंसां सम्मूढचेतसाम् । विदुषां शास्त्रसंसार:, सद्योगरहितात्मनाम् ॥५०९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130