Book Title: Nandanvan Kalpataru 2004 00 SrNo 11
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
Version
NE
किं च, तेन ज्ञानयुतेन तपसा चित्ते विवेकः सञ्जायते यत्, "मया एतत् तपः कथं कृतम् ? न तु आडम्बरार्थम् अपि तु चितविशुद्ध्यर्थम् आहारसंज्ञां न्यूनीकर्तुम्, समतालाभार्थं च एव कृतम्" इति । ततः तत्तपः एव धर्मरूपम् अस्ति, तदेव च लाभदायि अपि भवति ।
अद्य प्रभुभक्त्यासक्ताः जनाः विपुलं धनं व्ययीकुर्वन्ति, समयव्ययं च अपि कुर्वन्ति । किन्तु तत्पश्चात् यदि चित्ते मोहः जागृयात्, परिग्रहभावना उत्पद्येत, यत् व्ययीकृतं तस्य पुनः प्राप्त्यर्थम् आकाङ्क्षा उद्भवेत्, अहङ्कारः आगच्छेत्, तर्हि तया भक्त्या किं प्रयोजनम् ? सत्यम्, एतद्भक्तिः केवलं बाह्यधर्मरूपा न तु आत्मोन्नतिविधायिनी वास्तविकधर्मस्वरूपा च । यदि ज्ञानान्विता भक्तिः स्यात् तर्हि सा एव भक्तिः आत्मिकोत्थानस्य कारणं भवेत्, तथा च संसारस्य आसक्ति क्षपयेत् । क्रमशः च धनमूर्छा गतप्रायिका भवेत्, तथा भगवन्तं गुरुं धर्मं च प्रति बहुमानः आदरः च चित्ते संजायेत । अन्यथा भक्तिशब्दः एव तत्र स्यात्, न तु तद्रहस्यम् । तदा च सा भक्तिः संसारोत्तारिणी न भवेत् ।
__ अद्य समाजे उत्कृष्टधर्मरूपा सर्वविरतिः दीक्षा बहुभिः गृह्यते । जननी-जनकभ्रातृ-भगिनी-गृह-आपण-सर्वसुखसाधन-पदप्रतिष्ठादिकं सर्वम् अपि सन्त्यज्य दीक्षा स्वीक्रियते । किन्तु तत्पश्चात् यदि पूर्वस्नेहिजनानाम् आसक्तिः न अल्पीभवेत्, पूर्वानुभूतसुखं न विस्मर्येत, पूर्वकालीनमानप्रतिष्ठायाः अहङ्कारः सदा चित्ते रमेत, मनसि ईर्ष्या-क्षुद्रताहङ्कारा-सूया महत्त्वाकाङ्क्षा-सहिष्णुतादिकं प्रतिक्षणं प्रादुर्भवेत्, अन्येषां जनानां प्रतिबोधाय एव सर्वदा औत्सुक्यं वर्तेत, भक्तजनानां हितार्थं शिष्यवृद्ध्यर्थं च स्वाचारात् भ्रष्टता भवेत्, एवंरीत्या मनः अतृप्तिवशात् सदा व्याकुलं च भवेत्, तथा बाह्यसंसारं विहाय अतीव विस्तृतं समृद्धिपूर्णम् आभ्यन्तरसंसारं विरचय्य केवलं बाह्याडम्बरे एव मग्नाः । भवेयुः, तर्हि दीक्षया किं प्रयोजनम् ? कः च लाभः ?
__ बन्धो ! संयमजीवनस्य वास्तविकाराधना तदा एव भवेत् यदा सा आराधना सज्ज्ञानपूर्विका स्यात् । तस्मिन् काले एव च संयमस्य यथार्थानुभूतिः स्यात् । एतादृशः जीवः "एतद् बाह्यक्रियया आत्मिकलाभः भवति न वा, मया स्वकल्याणार्थम् एव दीक्षा अङ्गीकृता, न तु केवलं परहिताय । ततः मत्संयमजीवनापकारिण्या आत्मिक
Lane
Raalee
७६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130