Book Title: Nandanvan Kalpataru 2004 00 SrNo 11
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
गुणोत्कर्षबाधकया च परकल्याणचेष्टया अलम्" इति चिन्तयति ।
वस्तुतः स्वकल्याणे स्वगुणवृद्धौ स्वस्वभावे च रमणम्, तस्मिन् एव संयमजीवनस्य यथार्थता अस्ति, तदेव श्रेयस्करम् अस्ति । तर्हि एव सत्यरूपेण संसारविसर्जनस्य प्रक्रिया भवेत् । एवं ज्ञानयुतायाः एव दीक्षास्वरूपक्रियायाः माहात्म्यम् अस्ति ।
एवं शासने ज्ञानस्य अतीव मूल्यम् अस्ति । ज्ञानशून्या सर्वा अपि क्रिया अकिञ्चित्करा आभासिकी आडम्बररूपा च एव ज्ञेया । प्रथमं ज्ञानेन हेय-ज्ञेय - उपादेयस्य विवेक: जायेत, तदनु च या क्रिया क्रियते सा एव क्रियात्वेन व्याख्यायते । सङ्घं शासनं च केन्द्रीकृत्य या का अपि आराधना क्रियते सा एव वस्तुतः क्रिया, अन्यथा तु क्रियायाः व्याजेन प्रपञ्चः एव ज्ञेयः । ततः एतादृशी क्रिया एव धर्मत्वेन निरूपयितुं
शक्या ।
अद्य जैनसमाजे जैनेतरसमाजे च पूर्ववर्णितस्य बाह्यधर्मस्य आडम्बरस्य च एव वृद्धिः दृश्यते, न तु वास्तविकरूपस्य धर्मस्य । अद्य समाजे क्रियायाः उदरे दुष्टावकरः विशेषतः वृद्धिं गतः अस्ति । धर्मे इयत्तायाः माहात्म्यं विस्तृतम् अस्ति । एतेन एवं कृतं, एवं कृतं, एतेन इयत् धनं व्ययीकृतम् । हन्त ! अद्य तु धर्मस्थानेषु धनव्ययेन एव धर्मः भवति, इति स्थितिः वर्तते । ततः यः बहु धनं व्ययीकरोति सः धर्मी इति ख्याप्यते, किन्तु सः तु आभासः एव । तथा अपि इदानीं समाजे बाह्यक्रियायाः एव साम्राज्यं दरीदृश्यते । ततः एव वयं सर्वे अपि सज्ज्ञानक्रियायाः शनै: शनै: अतीव दूरं गच्छन्तः स्मः । कदाचित् तादृश्या बाह्यक्रियया समाजे पूजा - मान-प्रतिष्ठा - प्रशंसादिकं सर्वम् अपि प्राप्यते, किन्तु मूलतः तु तत्सर्वम् आत्मोन्नतौ बाधकम् अस्ति । एवं सज्ज्ञानस्य अभावात् तादृशी धर्मरूपा क्रिया एव प्रेरणादातुः कारकस्य च दुर्गुणपोषकरूपा भवति । ततः एव प्राचुर्येण धर्मक्रियायां सत्याम् अपि सर्वत्र समाजे सङ्खे च क्लेशः असहिष्णुता असूयावृत्तिः ईर्ष्या च वरीवृत्यन्ते । सर्वस्याम् अपि धर्मसंस्थायां पदाकर्षणवृत्तिः अहङ्कारसाम्राज्यं च दरीदृश्यते । अहो ! खलु धर्मस्य व्याजेन एवं वर्तते । 'बाबरी मस्जिद' नाम्ना देशे नैकेषां जनानां हिंसा: भवन्ति । मुस्लिमजनै: 'जेहाद' नाम्ना आतङ्कवादः प्रसारितः । पाश्चात्यजनाः धर्मस्य व्याजेन मायाप्रपञ्चादिकं कुर्वन्ति । एवं
Jain Education International
७७
For Private & Personal Use Only
pk por
www.jainelibrary.org

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130