Book Title: Nandanvan Kalpataru 2004 00 SrNo 11
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 91
________________ AN Ramarohi धर्मस्य व्याजेन सर्वत्र क्लेशः एव प्रसृतः अस्ति । सूक्ष्मदृष्ट्या तन्मूलं निरीक्ष्यते तदा ज्ञायते यत्'ज्ञानस्य नितराम् अभावः एव वर्तते, अपात्रजनानां हस्ते एषः चिन्तामणिरत्नोपमः सर्वोत्तमधर्मः आपतितः अस्ति' । यदि एतज्जनानां चित्ते ज्ञानरूपस्य द्वारस्य उद्घाटनं भवेत् तर्हि स्वतः एव क्लेशः विनश्येत्, तथा च शान्तिः प्रसरेत् । एवं ज्ञानं-बोधः एव सर्वस्य मूलम् अस्ति । यथा यदि गृहस्य मूलं दृढं न स्यात् तर्हि तद् उपरि गृहरचना न सम्यक् जायते । कदाचिद् भवेत् तथा अपि भीतिः संभवेद् एव, यत् कदाचिद् अपि नश्येत् । तथा एव ज्ञानरूपं मूलं विना क्रियमाणस्य अपि बाह्यधर्मस्य न मूल्यम्, न कः अपि लाभः । एवं सर्वत्र ज्ञानयुतायाः क्रियायाः एव प्राधान्यम् अस्ति । अन्ते ज्ञानशून्यां क्रियां कुर्वतां जनानाम् अनुमोदनं न कुरुत, किन्तु वास्तविकधर्मस्य स्वरूपं बोधयतु । तथा वयं सर्वे अपि यां यां क्रियां कुर्याम, तां क्रियां ज्ञानपूर्विकां कुर्याम । एवम् आत्मिकधर्मोन्नतिः सिद्ध्येत्, इति मे स्पृहा । || Pane गुणानामेव दौर्जन्याद् , धुरि धुर्यो नियोज्यते । असञ्जातकिणस्कन्धः , सुखं जीवति गौर्गलिः ॥ शीलाङ्काचार्यकृतायाम्- आचाराङ्गवृत्तौ Jain Education International ७८ For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130