Book Title: Nandanvan Kalpataru 2004 00 SrNo 11
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 88
________________ । अपि मोघम्, कर्मबन्धनस्य कारणं च भवति । यदि कः अपि दानबुद्ध्या मांसिकस्य छुरिकायाः दानं दत्त्वा मनसि तृप्तिम् अनुभवेत् यत् 'मया दानं कृतम्' इति तत् तु असाम्प्रतम् । यतः 'सः हन्ता अग्रे तच्छुरिकया अनेकान् जीवान् हनिष्यति । तत् तु महानर्थकरम् अस्ति, एवं यद् अनर्थकरं तत् कथं दानम् उच्यते ?' इति बोधः तदा जायते यदि चित्ते विवेकयुतं ज्ञानं स्यात् ! वस्तुतः येन धनस्य आसक्तिः क्षयेत्, दानग्राहकं प्रति बहुमानः आदरः च उत्पद्येत, तथा चित्ते कः अपि आशंसाभावः न । भवेत्, तद् एव दानं ज्ञेयम् । उक्तं च - यत् स्वयमदुःखितं स्यान्न च पदुःख्ने निमित्तभूतमपि । केवलमुपग्रहकरं धर्मकृते तद्भवेत् देयम् ॥ अद्य समाजे प्रतिदिनं दानरूपेण कोटीरूप्यकाणां व्ययः भवति । तत् सर्वं निरर्थकम् अस्ति, इति मत्कथनस्य न आशयः । किन्तु विवेकपूतज्ञानस्य अभावात् एवं भवति यत् 'यत्र न अस्ति धनस्य आवश्यकता तत्र विशेषतः दीयते, यत्र च आवश्यकता तत्र न कः अपि ददाति, ततः च समाजस्य कियन्ति कार्याणि अवसीदन्ति, तथा अन्यत्र धनस्य दुर्व्ययः भवति' इति । यदि खलु विवेकपूतज्ञानपूर्वकेण दानं प्रदीयेत तर्हि समाजस्य सङ्घस्य च कानिचिद् अपि कार्याणि न सीदेयुः । तथा च समाजे सङ्के च य: क्लेशः वर्तते सः नश्येत्, एवं सर्वत्र शान्तिः प्रसरेत् । तदा एव वास्तविकरूपेण शासनप्रभावना भवेत् । एवं विवेकान्वितायाः क्रियायाः एव प्राधान्यम् अस्ति ।। अद्य जनाः उत्कृष्टं तपः कुर्वन्ति । अनेकवर्षपर्यन्तम् आचाम्लम् (रसहीनरुक्षम् आहारं) एकशः आहारं च कुर्वन्ति । केचित् जनाः तु एकोपवासाद् आरभ्य आशीत्युत्तरशतोपवासपर्यन्तं सानन्दं तपः विदधति । एवं विविधं तपः अधुना क्रियते । हन्त ! एतेन तपसा यदि न दुष्टमनोवृत्तिः दुर्बला भवेत्, विकृतिः न हासं प्राप्नुयात्, न च चित्ते समत्वं जायेत प्रत्युत यदि क्रोध-लोभ-अहङ्कार-स्वप्रशंसा-बाह्याडम्बरादिदुर्गुणानां वृद्धिः एव स्यात्, तर्हि तेन तपसा क: लाभ: ? वस्तुत: बाह्यतपसः साधनेन आभ्यन्तरतपसः सिद्धिः साधनीया । तादृशस्य तपसः सिद्धिः विवेकयुतस्य ज्ञानस्य द्वारेण एव भवति, न अन्यथा । तथा च तादृशं तपः एव कर्मनिर्जरायाः कारणं भवति । these ७५ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130