Book Title: Nandanvan Kalpataru 2004 00 SrNo 11
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
संयोगयोग्यताभावो, यदिहाऽऽत्मतदन्ययोः ।
कृतो न जातु संयोगो, भूयो नैवं भवस्ततः ॥४९७॥ योगफलम् -
सम्यग्योगः उभयलोकहिताय भवति । अत्र दर्शितानि ऐहलौकिकानि फलानि तु योगमार्गप्रवृत्तानाम् आत्मनां कृते स्वकीयः मार्गः समीचीनः न वा इति निश्चयार्थम् अत्यन्तम् उपयोगीनि सन्ति ।
योगपथपथिकानां योगसाधनया के के लाभाः भवन्ति इत्यत्र दर्शयन्ति । "१. स्थिरता - प्रतिज्ञातस्य निर्वाहे स्थैर्यम् । २. धैर्यम् - आपत्तौ अपि अविचलितस्वभावः । ३. श्रद्धा - सत्यमार्गं प्रति दृढा रुचिः । ४. मैत्री - सर्वजीवेषु हितचिन्तनरूप: मित्रभावः । ५. जनप्रियत्वम् - शिष्टलोकानां स्नेहः । ६. प्रातिभतत्त्वभासनम् - स्वकीयया साहजिक्या प्रतिभया जीवादितत्त्वानाम् अवलोकनम् । ७. विनिवृत्ताग्रहत्वम् - अनुचिताभिनिवेशस्य अभावः । ८. द्वन्द्वसहिष्णुता - कर्मोदयेन प्राप्तानाम् इष्टानिष्टविषयाणां वियोगसंयोगरूपाणां द्वन्द्वानां सम्यक् सहनम् । ९. द्वन्द्वविनाशःद्वन्द्वानां यानि निमित्तानि तेषां शक्तीनां शुद्धयोगेन नाशः सञ्जाते सति तेषां द्वन्द्वानाम् अभावः । १०. कालोचितबाह्यलाभः - समाधेः स्थिरतायां निमित्तभूताः जीवननिर्वाहादयः कालोचिताः लाभाः । ११. शुभोदया धृतिः - जीवननिर्वाहिकासु सामग्रीषु सन्तोषः, अधिकप्राप्तेः लालसायाः अभावः च । १२. शुभोदया क्षमा - सत्यासत्यस्य श्रवणमात्रेण एव उत्तेजितं भूत्वा आविचार्य एव क्रोधादीनाम् आलम्बनेन आत्मनि जायमानायाः विक्रियायाः रोधनम् । १३. सदाचारः - सर्वेषाम् उपकारकारिणी प्रियवचनरूपा अकृत्रिमोचितस्नेहादिरूपा सज्जनानां चेष्टा । १४. योगवृद्धिः - मुक्तेः बीजभूतानां सम्यग्दर्शनादीनाम् उत्कर्षः । १५. आदेयता - अन्यैः आदरणीयानां वचनानां स्वामित्वम् । १६. गुरुत्वम् - गौरवम् । १७. अनुत्तरशमसौख्यम् - कषायाणां मन्दत्वे सति उद्भूतं प्रशमसुखम् । एतत् च बाह्यपदार्थजन्येभ्य: विषयादिसुखेभ्यः अतिशायि भवति" इति । एतावन्तः ऐहिकलाभाः भवन्ति योगसाधनया ।
योगस्य च मुख्यम् एकान्तिकम् आत्यन्तिकम् अनुत्तरं च फलम् अस्ति परं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130