Book Title: Nandanvan Kalpataru 2004 00 SrNo 11
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 82
________________ एतल्लक्ष्येण रहितं शिक्षणं तु केवलं विद्यायाः व्यापारः अस्ति । तादृशात् शिक्षणात् वैचारिकं व्यवहारिकं च औन्नत्यम् औदार्यं वाऽपि न प्रकटते । तथैव च लक्ष्यविहीनेन व्यवहारेण अपि पारस्परिकः भ्रातृभावः, जीवने शान्तिः प्रसन्नता च न लभ्यन्ते । उपर्युक्तस्य वाक्यस्य प्रत्येकं शब्देभ्यः शिक्षणस्य प्रकाशः व्यवहारस्य च माधुर्यं स्रवत् अनुभूयते । एषः प्रकाशः एतत् माधुर्यं चैव अस्माकम् आर्यसंस्काराणां प्राणतत्त्वम् अस्ति । अस्मासु विद्यमानस्य आर्यत्वस्य सम्यक्परिचयः एताभ्याम् एव भवति । अस्मासु जागृते एते प्रकाश: माधुर्यं च अन्यजनेषु सुप्तं देवत्वं जागर जागृतं देवत्वम् एव तस्य असत्संस्कारान् मूलतः उन्मूलयिष्यति । एवं च रीत्या व्यक्तौ 'व्यक्तौ जागृतं देवत्वम् एव क्रमशः परिवारस्य, समाजस्य, राज्यस्य, देशस्य, विश्वस्य च स्थितौ व्यापकम् उन्नतं स्थिरं च परिवर्तनं विधास्यति । समाज-राज्य-देशादीनाम् औन्नत्यार्थं बृहतीषु सभासु भाषणानि न आवश्यकानि नाऽपि च तानि उपायरूपाणि सन्ति । तदर्थं तु दृष्टौ नैर्मल्यम् एव आवश्यकम् । दृष्टिः ) यदि निर्मला भविष्यति तर्हि व्यवहारः तु स्वयमेव निर्मलः स्वस्थः च भविष्यति । तदनु च उन्नतिः शान्तिः प्रसन्नता वा न दुःसाध्या असाध्या वा स्यात् । वयम् अस्माकम् अहङ्कारः च सततम् अपरं धिक्कुर्महे तिरस्कुर्महे । व्यक्तिं च हीनं तुच्छम् अयोग्यं मत्वा - गणयित्वा एव व्यवहरामः । किन्तु न अनेन मार्गेण कस्य अपि जीवनम् उज्ज्वालयितुं शक्यम् । एतादृशः व्यवहारः तु परस्य जीवने अन्धकारम् एव प्रतनोति । यदि नाम वयं कस्य अपि जीवनम् उज्ज्वालयितुं न अलम् तर्हि त् 'न तावत् शोचनीयम्, किन्तु कस्य अपि जीवने अन्धकारं न प्रसारयेम इति तु पर्याप्तम् । उपर्युक्तात् वाक्यात् एषः एव उपदेशः ध्वन्यते । एतत् वाक्यं सतां प्रकृतिं सतां कृतिं च परिचाययति । वयम् अपि एतादृशं ज्ञानस्य प्रकाशं व्यवहारस्य औदार्यं दृष्टेः नैर्मल्यं च प्राप्नुयाम येन सर्वेषां जीवनं सुखमयं शान्तिमयं प्रसन्नतामयं च स्यात् । इति शम् । Jain Education International ६९ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130