Book Title: Nandanvan Kalpataru 2004 00 SrNo 11
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 81
________________ अस्माकं सर्वेषां ‘वर्तमानम्' (वर्तमाना स्थितिः) । सर्वेऽपि तस्य अनुभवं कुर्वन्ति । एषा स्थितिः कस्मैचित् अपि रोचते इति तु न किन्तु सर्वेऽपि प्रतीक्षमाणाः स्थिताः सन्ति यत् 'परः कदा स्वस्मिन् परिवर्तनं कुर्यात्' इति । एतादृश्याः च प्रतीक्षायाः अन्तः न केनाऽपि दृष्टः नाऽपि कल्पितः । स्वस्मिन् परिवर्तनम् एव अत्र उपाय:, न अन्यः। व्यवहारः संस्कारितां द्योतयति संस्कारिता च शिक्षणम् । यादृशं शिक्षणं तादृशाः संस्काराः, यादृशाः च संस्काराः तादृशः व्यवहारः । अद्यतनी शिक्षणपद्धतिः किम् आर्यपद्धतिः आर्षपद्धतिः वा अस्ति ? एतत् तु सर्वैः अपि विचारणीयम् । आभासिकीं भौतिक उन्नतिं प्रति आसक्ताः तत्प्राप्तौ एव च प्रयतमानाः वयं अस्माकं संस्कारधनं नायाम: । अत्र विषये अस्माभिः जागृतैः भवितव्यम् । स्वस्य जागरणम् अनिवार्यं प्रतिभाति । जीवनस्य सर्वोपरित्वं यत् न बोधयेत् सत्संस्कारान् च यत् न जागरयेत् तत् शिक्षणं कीदृशम् ? कथं नाम तत् शिक्षणत्वेन वक्तुं शक्यते ? उपर्युक्ते- " त्वया यत् आचरितं तेन न त्वम् अयोग्यः; त्वं तु योग्य: एव, केवलं त्वया यत् आचरितं तत् अयोग्यम्” इति अत्र वाक्ये व्यवहारस्य औदार्य संस्कारितायाः च आमोद: अनुभूयते । हृदयस्य विशालता दृष्टेः निर्मलता चाऽपि कामम् अनुभूयते । प्रकटरीत्या अस्मिन् वाक्ये कम् अपि उद्दिश्य न किम् अपि उपदिष्टम् अस्ति । एवं सत्यपि पारस्परिकैक्यस्य रहस्यं मनसः शान्तेः, चित्तस्य प्रसन्नतायाः जीवनस्य उल्लासस्य चाऽपि रहस्यम् अतः वाक्यात् प्रकटत् अनुभूयते । एषः एव आर्यव्यवहारः आर्षव्यवहारः वा । एतादृशे व्यवहारे एव अस्माकं मानवसमाजस्य च उन्नते: मूलं निहितम् अस्ति । अस्मात् वाक्यात् प्रवहन्तीं संस्कारितां यदि नाम वयम् अङ्गीकुर्याम पारस्परिकव्यवहारे च प्रयुञ्ज्याम तर्हि अनेकाः विडम्बना: निर्मूला: स्युः, समाधिः शान्तिः च सहजतया प्राप्ता स्यात् । किन्तु अत्र एक एव प्रश्न अस्ति यत् 'किं वयं आर्याः स्मः ? अस्माकं हृदये आर्यत्वस्य गौरवं किं विलसति ?' - प्रत्येकं व्यक्तिः सदसत्संस्काराणां पिण्डरूपा अस्ति । व्यक्तेः चारित्र्यनिर्माणं न सामान्यघटना अस्ति । शिक्षणं यथा संस्कारान् उद्बोधयति तथा पारस्परिकः व्यवहारः अपि संस्कारान् स्पृशति । मनुष्यस्य चारित्र्यनिर्माणे शिक्षणतुल्यं दायित्वं व्यवहारः अपि निर्वहति । शिक्षणस्य व्यवहारस्य च उभयोः अपि लक्ष्यम् अस्ति - चारित्र्यनिर्माणम् । Jain Education International ६८ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130