Book Title: Nandanvan Kalpataru 2004 00 SrNo 11
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
यतः तत्र अज्ञानस्य बाहुल्यं वर्तते । आत्मघातादिकं तु अज्ञानतायाः एव लक्षणम् अस्ति । एवं सत्यपि अनेन विषयशुद्धानुष्ठानेन मोक्षबाधकदोषाणां विगमः यत्र भवेत् तादृशं जातिकुलादिसहितं जन्म तत्कर्तारः प्राप्नुवन्ति इति केषाञ्चित् शास्त्रकाराणां मतम् अस्ति ।
मोक्षप्राप्तेः इच्छा अपि प्रशंसनीया अस्ति । यतः तादृशी इच्छा अपि मोहनाशकर्त्री भवति । अतः एव मुक्तिः तु सर्वकल्याणरूपा अस्ति । एतत् अनुष्ठानं तु पापस्वरूपत्वात् तत्र अत्यन्तं वैसदृश्यं वर्तते । अतः च अत्यन्तं पापस्वरूपम् एतत् अनुष्ठानं सर्वथा दोषरहितायाः मुक्तेः कारणं न भवति । ततः च दोषविगमः न भवति । आद्यान्न दोषविगम - स्तमोबाहुल्ययोगतः । तद्योग्यजन्मसन्धान - मत एके प्रचक्षते ॥२१५॥
मुक्ताविच्छाsपि यच्छ्लाघ्या, तमः क्षयकरी मता । तस्याः समन्तभद्रत्वा-दनिदर्शनमित्यदः ॥२१६॥
(ब) द्वितीयेन स्वरूपशुद्धेन अनुष्ठानेन तु दोषाणां ह्रासः यद्यपि भवति तथाऽपि न सः सानुबन्धः भवति । अर्थात् विनष्टानां दोषाणां पुनः उद्भवनं यथा न स्यात् तथा दोषहासः न भवति । यथा भस्मसात्कृतात् मण्डूकचूर्णात् मण्डूकानाम् उत्पत्तिः न भवति किन्तु केवलात् चूर्णात् तु निमित्तसंयोगे सति उत्पत्तिः भवति एव, तथैव अनेन स्वरूपशुद्धानुष्ठानेन यः दोषक्षयः भवति सः अदग्धमण्डूकचूर्णतुल्यः भवति; अतः एव च निमित्तसंयोगे पुनरपि दोषाः प्रादुर्भवन्ति । निश्चयेन अत्र गुरुलाघवादिचिन्ता न विद्यते । अर्थात् केन गुणेन अधिकलाभः जायते केन च अल्पलाभः जायते, केन दोषेण अधिकहानिः केन च अल्पहानिः भवति इत्यादिका चिन्ता- विचारणा एव अत्र अनुष्ठाने न विद्यते । तथाविधविवेकाभावात् च कायिकी चेष्टा एव भवति । अत: च आत्यन्तिकः दोषविगमः न भवति । उक्तं च
Jain Education International
-
-
“कायकिरियाए दोसा, खविया मण्डुक्कचुण्णतुल्लति । सव्वावणए ते पुण, नेया तच्छारसारिच्छा ॥” इति
१. कायक्रियया दोषाः क्षपिता मण्डूकचूर्णतुल्या इति । सर्वापनये ते पुन- - ज्ञेयाः तत्क्षारसदृशाः ॥
५३
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130