Book Title: Nandanvan Kalpataru 2004 00 SrNo 11
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 68
________________ भवन्ति । अतः अन्तःकरणस्य शुद्ध्यर्थं शास्त्रजलस्य आसेवनम् अवश्यं कर्तव्यम् । एषा शास्त्रभक्तिः एव 'मुक्तेः दूती' इति उच्यते । परलोकविधौ शास्त्रात्, प्रायो नाऽन्यदपेक्षते । आसन्नभव्यो मतिमान्, श्रद्धाधनसमन्वितः ॥२२१॥ उपदेशं विनाऽप्यर्थ-कामौ प्रति पटुर्जनः । धर्मस्तु न विना शास्त्रा-दिति तत्राऽऽदरो हितः ॥२२२॥ अर्थादावविधानेऽपि, तदभावः परं नृणाम् । धर्मेऽविधानतोऽनर्थः, क्रियोदाहरणात् परः ॥२२३॥ तस्मात् सदैव धर्मार्थी, शास्त्रयनः प्रशस्यते । लोके मोहन्धकारेऽरिमन्, शास्त्रालोकः प्रवर्तकः ॥२२४॥ पापामयौषधं शास्त्रं, शास्त्रं पुण्यनिबन्धनम् । चक्षुः सर्वत्रगं शास्त्रं, शास्त्रं सर्वार्थसाधनम् ॥२२५॥ न यस्य भक्तिरेतरिम-स्तस्य धर्मक्रियाऽपि हि । अन्धप्रेक्षाक्रियातुल्या, कर्मदोषादसत्फला ॥२२६॥ यः श्राद्धो मन्यते मान्या-नहङ्कारविवर्जितः ।। गुणरागी महाभाग-स्तस्य धर्मक्रिया पर ॥२२७॥ यस्य त्वनादर: शास्त्रे, तस्य श्रद्धादयो गुणाः । उन्मत्तगुणतुल्यत्वा-न्न प्रशंसास्पदं सताम् ॥२२८॥ मलिनस्य यथाऽत्यन्तं, जलं वस्त्रस्य शोधनम् । अन्तःकरणरनस्य, तथा शास्त्रं विदुर्बुधाः ॥२२९॥ शास्त्रे भक्तिर्जगद्वन्द्यै-मुक्तेफ़्ती परोदिता । अत्रैवेयमतो न्याय्या, तत्प्राप्त्यासन्नभावतः ॥२३०॥ (३) सम्यक्प्रत्ययवृत्तिः - प्रत्ययः नाम अभिलषितसिद्धेः संसूचकं चिह्नम्।। तादृशः प्रत्ययः त्रिविधः भवति - आत्मप्रत्ययः, गुरुप्रत्ययः, लिङ्गप्रत्ययः च इति । ՆՆ Jain Education International For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130