Book Title: Nandanvan Kalpataru 2004 00 SrNo 11
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 67
________________ द्वितीयाद् दोषविगमो, न त्वेकान्तानुबन्धनात् । गुरुलाघवचिन्तादि, न यत्तत्र नियोगतः ॥२१७॥ (क) तृतीयेन अनुबन्धशुद्धेन अनुष्ठानेन तु निश्चयतः सानुबन्धः दोषविगमः भवति । अन्ये अपि तीर्थान्तरीयाः एवं सानुबन्धदोषानाशं देवगृहादीनां दृढमूलतुल्यं वर्णयन्ति । यथा प्रथमं यदि गृहस्य मूलं दृढं कृतं स्यात् तर्हि तदुपरि रचितं भवनादिकं न नश्यति किन्तु दीर्घकालं यावत् सुरक्षितं स्थिरं च तिष्ठति तथैव च तत्त्वसंवेदनेन युक्तम् अनुष्ठानम् अपि उत्तरोत्तरं दोषनाशाय भवति । एतत् अनुष्ठानं गुरुलाघवादिचिन्तया युक्तं भवति । अतः एव च उदारफलदायकं सम्पद्यते । गुरुलाघवादिचिन्तया क्रियमाणा सर्वा अपि प्रवृत्तिः सर्वत्र महोदयाय एव भवति । तृतीयाद् दोषविगमः सानुबन्धो नियोगतः । गृहाद्यभूमिकापात-तुल्यः कैश्चिदुदाहृतः ॥२१९॥ एतद् व्युदग्रफलदं, गुरुलाघवचिन्तया । अतः प्रवृत्तिः सर्वैव, सदैव हि महोदया ॥२२०॥ (२) सच्छास्त्रपारतन्त्र्यम् - (अत्यन्तं सरलया शैल्या तथाऽपि दृढतया अत्र शास्त्रस्य महिमा तत्पारतन्त्र्यं च वर्णिते स्तः ।) परलोकस्य साधनायै तु शास्त्रम् एव एकम् आलम्बनम् । स्वमतिकल्पनया लोकहेर्या वा कृता क्रिया न कदापि हिताय भवति । पापरोगनाशकम् औषधम् अपि शास्त्रम् एव अस्ति । अज्ञानरूपस्य अन्धत्वस्य निवारकं चक्षुरपि शास्त्रम् एव । शास्त्रेणैव च सर्वार्थसिद्धिः भवति । अतः एव च शास्त्रे यत्नः अवश्यं विधेयः, यत: मोहस्य अन्धतमसं निवारयितुं शास्त्रम् एव आलोकः अस्ति । शास्त्रं प्रति आदरेण एव च धर्मक्रियाः अपि यथार्थफलदायिन्यः भवन्ति । यतः यस्य शास्त्रे आदरः अस्ति तादृशः श्राद्धः जनः अहङ्कारहितः भवति, गुणरागी भवति, तथा तस्य हृदये पूज्येषु बहुमानं प्रवर्तते । ततः च तस्य धर्मक्रिया अपि प्रकृष्टा गण्यते । यस्य च शास्त्रे अनादरः अस्ति तस्मिन् जने श्रद्धादयः गुणाः प्रायः न भवन्ति, कदाचित् स्युः अपि ते गुणाः तर्हि ग्रहाविष्टजनस्य उन्मादैः तुल्या: भवन्ति, ये च न प्रशंसास्पदाः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130