Book Title: Nandanvan Kalpataru 2004 00 SrNo 11
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 64
________________ - ननु कर्मबन्धस्य चत्वारः हेतवः सन्ति - मिथ्यात्वम् अविरतिः कषायाः योगाः च इति । अथ यद्यपि चरमशरीरिणाम् आत्मनां मिथ्यात्वाविरतिकषायरूपाणां त्रयाणां हेतूनां नाशः सञ्जातः एव तथाऽपि योगरूपः चतुर्थः हेतुः तु तेषाम् अपि विद्यते एव, अतः एव च तन्निमित्तकः कर्मबन्धः अपि भवति एव । तर्हि 'तेषाम् अनास्रवयोगः अस्ति' - इति कथं वक्तुं शक्यते ? सत्यम् । निश्चयनयमतेन तु सर्वथा अयोगिकेवलिनाम् एव अनास्रवयोगः भवति । एवं सत्यपि सयोगिकेवलिनां यः योगः अस्ति सः निश्चययोगस्य कारणम् अस्ति । अतः सः अपि अनास्रवयोगः एव इति न कश्चित् दोषः । अस्यैव सासवः प्रोक्तो, बहुजन्मान्तरावहः । पूर्वव्यावर्णितन्याया-देक्जन्मा त्वनासवः ॥३७५॥ आस्रवो बन्धहेतुत्वाद्, बन्ध एवेह यन्मतः । स साम्परायिको मुख्य-स्तदेषोऽर्थोऽस्य सङ्गतः ॥३७६॥ एवं चरमदेहस्य, सम्परायवियोगतः । इत्वरावभावेऽपि, स तथाऽनासवो मतः ॥३७७॥ निश्चयेनाऽत्र शब्दार्थः, सर्वत्र व्यवहारतः । निश्चयव्यवहारौ च, द्वावप्यभिमतार्थदौ ॥३७८॥ योगस्य अन्यत् स्वरूपम् - विधा शुद्धमनुष्ठानं, सच्छास्त्रपरतत्रता । सम्यक्प्रत्ययवृत्तिश्च, तथाऽत्रैव प्रचक्षते ॥१०॥ त्रिभिः प्रकारैः शुद्धम् अनुष्ठानम्, सच्छास्रपारतन्त्र्यम्, सम्यक्प्रत्ययवृत्तिः च इति त्रिप्रकारकः अपि योगः भवति । तत्र (१) त्रिधा शुद्धम् अनुष्ठानम् - विषयशुद्धम् अनुष्ठानम्, स्वरूपशुद्धम् अनुष्ठानम्, अनुबन्धशुद्धम् अनुष्ठानं च इति त्रिभिः प्रकारैः शुद्धम् अनुष्ठानं वर्ण्यते । एते त्रयः अपि प्रकाराः उत्तरोत्तरम् अन्यस्मात् अन्यस्मात् प्राधान्येन वर्तन्ते । तन्नाम विषयशुद्धानुष्ठानात् ५१ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130