Book Title: Nandanvan Kalpataru 2004 00 SrNo 11
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
१
च इति त्रितयम् अध्यात्मम् इति अन्ये योगशास्त्रकाराः वदन्ति । तथा हि१. त्रिभिः प्रकारैः स्वयोग्यतायाः आलोचनं भवति-योगप्रवृत्या, जनवादात्, आगमानु
सारिनिमित्तैः च । तत्र योगप्रवृत्या नाम मनोवाक्कायरूपाणां योगानां सम्यक् प्रवर्तनेन, जनवादात् नाम लोकानां स्वं प्रति यः निर्मलः भावः आदरः वा तेन, आगमानुसारिनिमित्तैः च नाम पशुपक्ष्यादिशब्दरूपाः शकुनाः, तैः-एवं च त्रिभिः प्रकारैः
स्वयोग्यतायाः यत् सम्यक् परीक्षणं तत् अध्यात्मम् । २. एवं च सम्यग्रीत्या स्वयोग्यताम् आलोच्य धर्मे प्रवर्तनं हि निश्चयेन इष्टफलप्रदायकं
भवति । यतः स्वकीयं योग्यत्वायोग्यत्वम् आलोचयति आत्मनि भावस्य प्राधान्यात् धर्मे तस्य दृढानुरागः भवति । धर्मे यस्य प्रतिबन्धः नाऽस्ति सः औदयिकभावैःतन्नाम कर्मणाम् उदयेन प्राप्यमाणैः पदार्थैः परिस्थितिभिः वा-उपहतचित्तत्वात् न स्वौचित्यम् आलोचयति । स्वयोग्यतां विना धर्मे प्रवर्तनं न कदाऽपि सफलं भवति । अतः यः योगभङ्गभयेन युक्तः स्यात् श्रद्धातिशयात् च योगसिद्ध्यर्थं । दृढम् उत्सुकः स्यात् तथा परिणामालोचनपूर्वकम् एव च कार्ये प्रवर्तमानः स्यात् - एतादृशः बुद्धिमान् आत्मा शुद्धयुक्त्या स्वयोग्यतां सम्यक् विचारयति, तदनु चैव धर्मे प्रवृत्तिं करोति-इत्यपि अध्यात्मम् । अणुव्रत-महाव्रतादिपालनरूपे कार्ये प्रारब्धे सति अशुभकर्मणाम् उदयेन कदाचित् तत्र भङ्गादिरूपं भयम् उपस्थितं भवेत् अपि । तद्भयस्य उपशमार्थम् आत्मनिरीक्षणं कुर्यात् यत्- मया किं किं कृतम् ? किं कृत्यं च अवशिष्टम् ? - इत्यादि । यथा रोगाणां शत्रूणां वा भये उपस्थिते सति चिकित्सायाः दुर्गस्य वा शरणम् अङ्गीक्रियते तथैव यदि चित्तम् उन्मार्गगामि स्यात् तथा च धर्मकृत्ये यदि भङ्गभयम् उपस्थितं स्यात् तर्हि देव-गुर्वादीनां शरणम् एव आश्रयणीयम्, येन दुरितानां क्षयः स्यात्। एवं च कृतम् आत्मनिरीक्षणम् अपि अध्यात्मम् एव ।
स्वौचित्यालोचनं सम्यक्, ततो धर्मप्रवर्तनम् । आत्मसम्प्रेक्षणं चैव, तदेतदपरे जगुः ॥३८९॥
३
४३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130