Book Title: Nandanvan Kalpataru 2004 00 SrNo 11
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
अतः एव च यस्य मुक्त्यादिषु - मुक्तौ, मुक्त्युपायेषु, मुक्तिपथप्रस्थितेषु जनेषु च द्वेषः नाऽस्ति सः एव गुरुदेवादीनां पूजनम् अपि शोभनया रीत्या औचित्येन च कर्तुं शक्नोति । यतः लघु अपि सत्कृत्यं महादोषवतां न गुणाय भवति । अतः च मुक्ति द्विषन् जन: गुरुदेवादीनां पूजनं कुर्यात् चेदपि न तत् सत्कृत्यत्वेन गणयितुम् अर्हति । गुरुदेवादीनां पूजनेन यावान् लाभः न भवति तावान् लाभः तु मुक्त्यद्वेषेण भवति । अतः मुक्त्यद्वेषमूलकः अयं गुरुदेवादिपूजनलाभ: । एवं च मुक्त्यद्वेषः तु पूर्वसेवायाः मुख्यः गुणः ।
Jain Education International
कृत्संकर्मक्षयान्मुक्ति-र्भोगसङ्क्लेशवर्जिता । भवाभिनन्दिनामस्यां द्वेषोऽज्ञाननिबन्धनः ॥१३६॥
श्रूयन्ते चैतदालापा, लोके तावदशोभनाः । शास्त्रेष्वपि हि मूढाना - मश्रोतव्याः सदा सताम् ॥ १३७ ॥
वरं वृन्दावने रम्ये, कोष्टुत्वमभिवाञ्छितम् । न त्वेवाऽविषयो मोक्षः, कदाचिदपि गौतम ! ॥॥१३८॥
महामोहाभिभूतानामेवं द्वेषोऽत्र जायते । अकल्याणवतां पुंसां, तथा संसारवर्धनः ॥१३९॥ नास्ति येषामयं तत्र, तेऽपि धन्याः प्रकीर्तिताः । भवबीजपरित्यागात्, तथा कल्याणभागिनः ॥१४०॥ येषामेवं न मुक्त्यादौ, द्वेषो, गुर्वादिपूजनम् । त एव चारु कुर्वन्ति, नाऽन्ये तद्गुरुदोषतः ॥ १४७ ॥ सच्चेष्टितमपि स्तोकं, गुरुदोषवतो न तत् । भौतहन्तुर्यथाऽन्यत्र, पादस्पर्शनिषेधनम् ॥१४८॥
गुर्वादिपूजनान्नेह, तथा गुण उदाहृतः । मुक्त्यद्वेषाद्यथाऽत्यन्तं महापायनिवृत्तितः ॥१४९॥
४०
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130