Book Title: Nandanvan Kalpataru 2000 00 SrNo 04
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
कथा
चरित्र कृपा
कृपाविज्ञानाद् ये, जगति विदिता, ज्ञाननिरताः,
अनासक्ता आर्षाः, प्रकृतिसरलाः, साधकवराः । सुधीकस्तूराख्याः, सुयतिवृषभाः, सूरिमुकुटाः,
कथं वा तेषां, गुणगणकथा मन्दमतिना? ।।
प्राकृतविशारदाचार्यश्रीविजयकस्तूरसूरीश्वराणां जीवनचरितम् ॥
-विजयसोमचन्द्रसूरिः
69)
69 आचार्या जिनशासनोन्नतिकराः -७) वैशिष्ट्यविशिष्टे लोकेऽस्मिन् विविधानां दर्शनानां धर्माणां च सद्भावेऽपि अनेकान्तमण्डितमर्हद्दर्शनं जैनधर्मश्च वरीवर्तेते । तस्य दर्शनस्य प्ररूपकाः, तीर्थस्य स्थापकाश्च केवलज्ञान-दर्शनधरा विश्वकल्याणकारकाः, कृपापराः तीर्थकराः "अर्हन्तः", परं, अनेकान्तदर्शनस्य प्रसारकाः, जैनशासनस्योन्नतिकरा योगक्षेमकराश्च "आचार्याः" भगवन्त एव । उक्तं च "तित्थयरसमो सूरी, सम्मं जो जिनमयं पयासेई" इति।
परमकृपालोः परमात्मनः श्रीमहावीरस्वामिनः शासने अद्यावधि अनेके श्रीसूरिभगवन्तः बभूवुः, भवन्ति, भविष्यन्ति च, ये स्वापेक्षां विना जिनशासनधुरो वहनं गीतार्थभावेन अकुर्वन्, कुर्वन्ति, करिष्यन्ति च ।
स्वनामधन्यानां तेषां पूर्वाचार्याणां पावनपरम्परायां सूरिचक्रचक्रवर्तिनः परमपूज्यपादाः शासनसम्राडाचार्यश्रीमद्विजयनेमिसूरीश्वरा देदीप्यन्ते स्म । निजान्विता नवरत्ननिभाः नव आचार्या भगवन्तः अशोभन्त । तेषामन्तिमा वात्सल्यवारिधीनां परमपूज्याचार्यश्रीविजयविज्ञानसूरीश्वराणां पट्टधराः प्राकृतवाग्विशारदाः, गुणगणसमलङ्कताः, प्रगुरुभगवन्तः, परमपूज्याचार्यश्रीविजयकस्तूरसूरीश्वराः ।।
निर्मला येषां मुखाकृतिः, निर्दम्भा येषां कृतिः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98