Book Title: Nandanvan Kalpataru 2000 00 SrNo 04
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
तस्मिश्च बुधपुरुषा न कमपि सारं पश्यन्ति, सम्यग्दर्शित्वात्तेषाम् ।
मनुष्याणामनेकविधानां प्रश्नानामेकस्यैवाऽस्य सम्यग्दर्शनस्य साहाय्येन निराकरणं सुलभम् । प्रत्येकं जनः स्वकीयया दृष्ट्यैव स्थितिं पदार्थांश्च प्रेक्षते विचारयति च । तत एव च प्रश्नाः समुद्भवन्ति । यस्याऽस्ति सदृष्टिः सत्यान्वेषणस्य वा दृष्टिः सोऽपि स्वदृष्ट्यैव परिस्थितिं पदार्थांश्च मानयति । किन्तु, न नाम कोऽप्याग्रहस्तं तत्र पीडयति, अत एव च सङ्घर्षोऽपि तस्य नोद्भवति । अन्यत्र च क्षुद्रदृष्टिराग्रहग्रहिलो जनोऽनेकेषु प्रश्नजालेषु मुह्यन् स्वकीयाया मूलावस्थाया भ्रष्टो भवति । ___मनुष्यरूपेणाऽस्माकं वर्तमानाऽवस्था यद्यप्यल्पकालभाविनी एव तथापि तत्वतो जीवनं शाश्वतम् । सर्वत्र सर्वकालं च तद् वर्त्तते । एतादृशस्य जीवनतत्वस्याऽनुभूतिं विनैवेतः प्रस्थानं न तस्य साफल्यं कथ्यते । ईदृशं शाश्वतं तत्त्वं विमुच्य नश्वरप्राप्त्याऽऽत्मसन्तोषप्रापणं यदि न मौयं तर्हि किं तत् ? , ___ या काऽप्यवस्था यद्यशाश्वता तर्हि तया सम्बद्धैर्दुष्प्रापैर्दुर्लभैर्वा सर्वैः पदार्थैरप्यशाश्वतैरेव सम्भाव्यते । सर्वेष्वपि सम्बन्धेषु सर्वास्वपि चेच्छासु प्रान्तेऽतृप्तिरेवाऽवशिष्यते । शाश्वतं तु सर्वाप्यवस्थास्वनुगतं केवलं जीवनतत्त्वमेवाऽस्ति । तदेवैतद् यदस्तित्वेनाऽभिधीयते । अस्तित्वमात्रस्याऽऽनन्द एव जीवनतत्त्वस्याऽऽनन्दः । इच्छानामतृप्तीनामेषणानां भारैर्मुक्तोऽयमानन्दः । अस्याऽऽनन्दस्य न विद्यते कोऽप्याधारः । नैष कस्मादपि पदार्थसार्थात् कस्या अपि वा परिस्थितेः प्राप्यते । स तु पदार्थानां परिस्थितेश्च सत्यादुद्भवति, सम्यग् दर्शनं च तस्य मूलम् । दृष्टेरुद्घाटनादेव सत्यमुदघटते । सत्यस्य दर्शनस्य पश्चादेवाऽऽनन्दस्य सुखस्य वा गृहे प्रवेशोऽपि भवति । तदेव च सुखं शाश्वतमनन्तं वाऽस्ति ।
यदीह च जनस्य कस्या अपि प्राप्तेरिच्छायां लक्ष्यरूपेण यद्यखण्डं सुखं सम्पूर्णश्चानन्दः स्याताम्; अद्यापि च यदि स्वस्वीकृतमार्गेण न स साफल्यमाप्नोत् तर्हि किमर्थमनेन सद्दर्शनस्वरूपेण मार्गेण न यतितव्यम् ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98