Book Title: Nandanvan Kalpataru 2000 00 SrNo 04
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 80
________________ - - बुद्धिर्यस्य धनं तरय। ___ - साध्वीश्रीयुगन्धराश्री एकदा कश्चित् श्रेष्ठी बालकश्चाऽग्निरथेऽन्योन्यं सन्मुखमुपविशतः स्म । बालको धनवान्नासीत् तथाऽपि स धीमानासीत् । गणकयन्त्रयुग इव सोऽपि धनोपार्जनार्थं मुम्बापुरी गच्छनासीत् । तत्र यात्रायां कालक्षेपार्थं स बालकः श्रेष्ठिनमवदत् यद्, आवां परस्परं प्रश्नं पृच्छावः । यदि भवान् पराजितः स्यात्तदा भवता दश रूप्यकाणि मह्यं प्रदेयानि । यद्यहं पराजितः स्याम् तदा मया रूप्यकमेकं देयमिति। . श्रेष्ठी - कथमेवम् ? बालक:- दरिद्रोऽहं, श्रीमान् भवान्, अतः । श्रेष्ठी - शोभनं, शोभनम् । अधुना कः प्रथमः पृच्छको भवेदिति प्रश्ने उद्भूते श्रेष्ठिना बालकः कथितः, 'त्वमेव प्रथमः पृच्छको भव', इति । बालक:- (पृच्छति)गगने उड्डयमानस्य कस्य खगस्य पादौ भूतलं स्पृशतः ? श्रेष्ठी - (किञ्चिद् विचार्य) न जानाम्यहम् । बालक:- तहि देहि मे दश रूप्यकाणि । वचनानुसारं स श्रेष्ठी बालकाय दश रूप्यकाण्ययच्छत् । बालकः- (पुनः) अधुना प्रश्नार्थं ते वारकः । श्रेष्ठी - (किमन्येन प्रश्नेन इति विचिन्त्य) तवैव प्रश्नमहं त्वां पृच्छामि । कथय तस्योत्तरम् । बालक:- न जानेऽहमपि, अतो गृह्णातु एकं रूप्यकम् । एवं, स बालकः स्वधिया नव रूप्यकाण्युपार्जितवान् । अत एव ज्ञायते यद्यथा बुद्धिर्यस्य बलं तस्य तथा बुद्धिर्यस्य धनं तस्येत्यपि सत्यम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98