Book Title: Nandanvan Kalpataru 2000 00 SrNo 04
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 84
________________ - मर्म-नर्म ( कथाकारो रामायणं व्याख्याति । कथान्तरे श्रोतृवर्गे नगरश्रेष्ठी निद्रायमाणो दृश्यते) कथाकारः श्रेष्ठिन् ! भोः श्रेष्ठिन् ! स्वपिषि किम् ? श्रेष्ठी (प्रबुद्धः सन् ) को वदति? (क्षणार्धेन पुनर्पूर्णमानं तं दृष्ट्वा ) कथाकारः श्रेष्ठिन् ! स्वपिषि किम्? श्रेष्ठि (सहसोत्थाय ) को वदति? ( पुनरपि तं सुप्तं दृष्टवा ) कथाकार: (किञ्चिद् विचार्य) श्रेष्ठिन् ! भोः श्रेष्ठिन् ! जीवसि किम्? श्रेष्ठी (झटिति जागृतः सन् ) को वदति? रामलालः भोः किं त्वं राजकीयक्षेत्रे प्रधानोऽसि? श्यामलाल: नहि भोः !, केनोक्तम् ? रामलालः तर्हि अर्धहोरातः किमिति अस्खलितं वावद्यसे? - मुनिकल्याणकीर्तिविजयः 19 ७७ en Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98