Book Title: Nandanvan Kalpataru 2000 00 SrNo 04
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 81
________________ (९) सुभाषित - कथा) - एम्. के. नझुण्डस्वामी कदाचित् कबीर साधुः भिक्षामटन् स्वकुटीरं प्रति निवर्तमान आसीत् । मार्गं गमिष्यतस्तस्य मनसि सहसा चिन्ता उदियाय-अहो अहं बहोः कालात् तपस्यन् तत्त्वावगमाय यतमान एवास्मि । तथापि सिद्धिं नावगच्छामि; किं करोमि; कदा वा सिद्धिं प्राप्नुयामिति । स एवमत्यर्थं खिन्नः अग्रेसरन्नासीत् । एवं ध्यायन् कियच्चित् दूरं गतवतः तस्य मार्गपार्श्वतः कोऽप्याराम: दृष्टिगोचरो बभूव । तत्र आरामपालश्च वाषिकफलप्रसविनं कमप्येकमेव वृक्षं आलवालपरिक्षिप्तं सिञ्चन् अदृश्यत । कबीरः अवनम्रघटमुखात् पततः वारिणः मधुरध्वनिना आक्षिप्तिचित्तः आरामपालस्य जल-सेचन-क्रियां अवलोकयन् तूष्णीं कियन्तमपि कालं स्थित एवासीत् । आरामपालस्तु सिञ्चनात् न कथमपि विरमति । तदा समुत्सुकः कबीरः तं पप्रच्छ। ___ भोः आरामपालक !, कुत एवं एककमेव वृक्षं परःशतैः जलघटैः सिञ्चन् असि ?-' इति । आरामपालः प्रत्यवदत् - आर्य ! किमन्यत्, एष वृक्षः शीघ्रं फलं दद्यात्, इति । तदा कबीरः सहसाऽवदत् ! भोः अधिकजलसेचनेन न स्थाने प्रचुराणि फलानि भवेयुः । वृक्षः स्वं ऋतुमनुसृत्यैव फलति । शीघ्रं कथं वा फलति ?-इति । एवं कथयतस्तस्य मनसि विचारः समजनि-अहो ! अहं आरामपालं उपदेष्टुं यते, स्वयं तु आत्मसिद्धि प्रति त्वरावान् अभूवम् इति । एवं ध्यायतः तस्य मुखात् अतर्कितं वाणी निरगात् यथा "धीरे धीरे रे मना, धीरे सबकुछ होय । माली सींचै सौ घडा रितु आये फल होय ॥" ND ७४ en Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98