Book Title: Nandanvan Kalpataru 2000 00 SrNo 04
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
तहि क्षमयामि। 'अभिवादनम् । अधुना किं दीर्घनिद्रां वाञ्छसि पृथिव्यां वा पुनर्गन्तुमिच्छसि?' 'किम्? पुनः पृथिव्याम् ?'
'आम् वत्स ! तत्शक्यम् । पृथिव्यां यदा जागरिष्यसि तदा शीतेन पीडितो भविष्यसि किन्तु जीविष्यसि । कथय किं रोचसे, दीर्घनिद्रां जीवनं वा?
काष्ठहारकः मनसि आलोचितवान् - 'अतः परं भगवान् एव सर्वं करिष्यति ।' 'यदि भवान् प्रसन्नस्तहिं गृहगमनमेव काळे' - स उवाच । 'शोभनम् ! तदप्यनुभव' - ईश्वरोऽवदत् ।
'एनं पुनर्नयतु' भगवता साधुरुक्तः । पश्चात् कक्षान्तरं प्रविश्य द्वारं पिहितवान् । काष्ठहारकः सोऽरण्ये जागृतोऽभवत् । ताण्डवं तु तदा शान्तं जातम् । सूर्यस्तु मन्दं प्रकाशते स्माऽऽकाशे ।
तत उत्थाय गृहं प्रति धावितवान् । स्वयं जीवति इति आनन्दित आसीत् सः । गृहस्य जीर्णद्वारं लीलयैवोद्घाटितम् । यदनुभूतं तत् कथयितुं यावद् वचनमुच्चारितं तावत् पत्नी तं ताडितवती।
‘कियान् विलम्बः कृतः त्वया?' - सा उक्तवती ।
काष्ठहारको भूमावपतत् । व्योम प्रति करुणदृष्टिं कृत्वा पाश्र्वं परावृत्त्य च मन्दमवदत् - 'हे भगवन् !!!'
[क्रिस्टोफर-लीच-इत्यनेन आङ्ग्लभाषायां लिखिताया मूलशङ्कर-भट्ट-इत्यनेन च गूर्जरभाषा- यामनूदिताया 'हे भगवान!' इति कथाया अनुवाद एषः ।]
।
सर्वं शोभते समयोचितम्।।
" हैमवचनामृतम् "
19 ५४ en
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98