Book Title: Nandanvan Kalpataru 2000 00 SrNo 04
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 68
________________ - ST - अत्र च-स श्रावकस्तु एतां घटनां विस्मृत्य प्रभुभक्तौ निमग्न आसीत्। अस्खलितवाग्धारया मधुरस्वरेण रसनिबद्धं भक्तिभृतं च गीतं गायन्नासीत् सः । स 'नवाबोऽपि किमप्यनुक्त्वा अस्य भक्तिपूतं समर्पणसंदीप्तं च वदनं निरीक्षमाणोऽतिष्ठत् । 'पार्श्वनाथ'प्रभोः पर्युपासनां कृत्वा स श्रावको बहिरागच्छति । तदैव नवाबेन स श्रावक आश्लिष्टः । आनन्दाश्रुपूरित- अनुमोदनाभावभरितेन वदनेन तेन प्रोक्तम्-त्वं धन्योऽसि, त्वं सत्यमेव प्रभुभक्तोऽसि, तवाऽकम्पितश्रद्धान्वितां निरुपमां भक्ति वीक्ष्यातीव प्रसन्नो भवाम्यहम् । अपि च, अद्य सफलीभूतं मे जन्माऽपि । अनेकशो भक्तेः वार्ता श्रुता, किन्तु भक्तिशब्दस्य तात्पर्य तु ज्ञातमनुभूतं चाऽद्यैव । शक्तिप्राप्तेः चिन्तायामशक्तः अयं जातः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98