Book Title: Nandanvan Kalpataru 2000 00 SrNo 04
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 71
________________ (२) अस्त्यत्र घटनैषा । अस्मिन्नेव नगरे निवसति स्मैष हक्कः । अमृत तस्य पिताऽल्यवयस्येव । अकस्मात् तन्माताऽपि कियत्कालपूर्वं मृता । एवं नासीत् तस्य परिवारे कोऽपि जन:, यतस्स निर्बन्ध एव ग्रामेऽपि व्यहरत् । तस्याऽऽसीत् काऽपि नाऽन्या चिन्ता । ग्रामजनानामापणं गत्वा तैः सह वार्तालापद्वारेण समयाकरोति स्म । निशि तु मन्दिरस्य विद्यालयस्य ग्रामचत्वरस्य वा भूमौ स स्वपन्नासीत् । अथ च, स सर्वेषां नगरजनानां प्रिय आसीत्, यतो नगरस्य बालैः वा वृद्धैः वा, स्त्रीभिः वा पुरुषैः वा, सामान्यजनैः वा विशिष्टजनैः वा, सर्वैरपि लक्षितानि कृत्यानि स निरालसं कुर्वन्नासीत् । स प्रकृत्या हसनशीलः, निष्पापी, उत्साही, सर्वेषां कर्मकरणोद्यमी चासीत् । स कौतुकी अप्यासीत् । सर्वेऽपि तस्य कुतूहलं सहमाना आसन्, यतो हक्कस्य स्वभावो निष्पापः । एवं भ्रमति स्म स इतस्ततस्सर्वस्मिन्नैव नगरे । किन्तु तस्य चारित्रमतिविशुद्धमासीत् । आस्तामतिगम्भीरेऽब्धिवत् तस्य नयने, तस्य मानसमपि स्फटिकवत् सुनिर्मलमासीत् । तस्य चारित्रे न केऽपि शङ्किता आसन् । अत एव केषाञ्चिदपि गृहे आपणे वा निर्बन्धं गन्तुं समर्थ आसीत् स हक्कः । यदा कदाचित् बुभुक्षितो भवेत् तदा कस्यचिदप्यापणात् किमपि खाद्यवस्तु गृहीत्वा तमेवाऽऽपणस्वामिनं प्रति मयैतद्वस्तु गृहीतं, किं ज्ञातं भवता ? इति पृष्ट्वा सर्वानपि जनान् हासयति स्म । एवं स जनप्रिय आसीत् । किञ्च, आसीत् तस्याऽन्यदपि वैशिष्ट्यमेकम् । पृथक् पृथक् वेषमाकलय्य स ग्रामे निर्गच्छेत् तदा तमालोक्य सर्वेऽपि मुह्यन्ति स्म । यस्य कस्याऽपि वेषं स भजेत् तदा तमनुलक्ष्यैव तैः सह व्यवहरन्ति स्म सर्वे जनाः । वेषपरिवर्तनेन स एतादृशं सादृश्यं निरूपयति स्म । Jain Education International ६४ @the For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98