Book Title: Nandanvan Kalpataru 2000 00 SrNo 04
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
शवम्
- मुनिधर्मकीर्तिविजयः
शवम्, शवम्, शवम्।
पतितमासीत् सर्वतो भूमिं स्पृष्ट्वा शवमेकम् । सर्वं मुखमपि तस्य रुधिरेण रञ्जितमासीत् । एकः क्रमो वक्र: । एको हस्तो वक्षसि, अन्यो हस्तो वदनोपरि पतित आसीत् । आस्तां द्वौ हस्तावपि रुधिरेण लिप्तौ । नयनेऽपि मीलितेऽभूताम् ।
पतित आसीदेष कुणपो नगरस्य मार्गस्य मध्यभागे । नासीत् कोऽप्यन्यो मार्गो नगरस्य बहिर्गन्तुं ततोऽन्यग्राम प्रति गमनोत्सुकास्सर्वे पौरजना एतदेवाऽयनं प्रत्यागच्छन्त आसन् । किन्तु वर्त्मनो मध्यस्थितं कुणपमेतं वीक्ष्य भीति प्राप्नुवन्तो न केऽपि जनाः पुरस्सरं गमनार्थं समर्था आसन् । ततस्तत्रैव सर्वे जनाः स्तम्भीभूता इव स्थिताः । एवं तत्रत्यस्थाने बहवो नागरिका मीलिताः । अपि तु नासीत् शक्तिरुपकुणपं गन्तुं केषाञ्चिदपि । ततस्सर्वे जना दूरे एव संस्थिताः ।
तदा तत्रस्थितास्सर्वे जनाः परस्परमेवमलपन् ।
संभवत्येष मार्गस्तु मध्याह्न एव केवलं पथिकविहीनः । अन्यस्मिन् काले तु भवत्येव पौरजनानां गमनाऽऽगमनम् । अत एवैतद्धटनाकालोऽपि मध्याह्न एव संभाव्यते । एवं सर्वे निर्णीतवन्तोऽभवन् ।
तदैवैको जन आह, यन्नैष निर्णयो योग्यो युष्मदीयः, यतोऽहमस्मादेवाऽयनात् मध्याह्ने आगत आसम्; तदा तु नासीत् कुणपोऽत्रैषः ।
श्रुत्वैतद्वाक्यं सर्वे जनाः पुनश्चिन्तिता बभूवुः । कुत आगत एष कुणप:? किमत्रैवाऽस्य हत्या कृता, उताऽन्यत्र हत्यां कृत्वाऽत्र शवं प्रक्षिप्तम् ?
19 ६२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98