Book Title: Nandanvan Kalpataru 2000 00 SrNo 04
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
कस्यचिदेष कुणपः? किमस्ति कञ्चिदस्य शवस्याऽभिव्यञ्जकः?, एवं सर्वे यथामति प्रश्नान् चक्रुः । तथाप्येतस्य शवस्य समीपं न केऽपि जना जग्मुः, दूरात्तु न शवं संलक्ष्यते ।
किं करिष्याम: ? किं करिष्यामः ?, एवं निःश्वस्य सर्वे तूष्णींस्थिताः । तदा केचिद्घीरपुरुषाः कुणपस्याऽस्य लक्षणानि ज्ञातुं समीपं गताः ।
कुणपं निरीक्ष्यएकेन कथितं - अरे ! एषः ? अन्येनोक्तं-ज्ञायते देहस्य रचनयैष यद्, अहो ! ज्ञातं ज्ञातम् .....। अन्येन प्रोक्तं - अरे ! तस्य सदृशान्येवाऽस्य वस्त्राणि; अतस्स एवाऽयं, स एवाऽयम्....। तदा सहसैवैक आह - एष तु हक्कः कल्प्यते यत्, चिकुरा अपि तन्निभा एव अन्येन गदितं- सत्यमेव, सत्यमेव, एष हक्क एव दृश्यते; यत उपानहावपि तत्तुल्ये एव।
प्रान्ते जनसमुदायादेको बलिष्ठो जनस्सर्वेषां शङ्कां दूरीकुर्वन्नुवाच यत्, तत्तुल्यान्यंशुकानि, तन्निभाः शिरोरुहाः, तस्य प्रतीकाशे उपानहौ, एवं कथं वदथ? एष हक्क एवाऽस्ति, इत्येवं किमर्थं न जल्पथ? एवं संश्रुत्य सर्वे जनाः स्तब्धा इवाऽभवन्, किमपि न वदन्ति, सर्वे जनाः क्षणं शबमेव दरीदृश्यन्ते ।
'अस्ति हक्क एव' एवं निर्णीते सति व्याकृतमेकेन, एतत्तु न संभवति, न कथमपि मन्येऽहम्, यतो मया स प्रातरेव दृष्टः ।
अन्येनाऽऽचष्टम् - भो ! भो ! त्वया तु प्रातः काले दृष्टः, किन्तु मया त्वधुनैव कियत्कालं पूर्वमेव निरीक्षितः, अहो किमेतद् ?
एवं श्रुत्वा वीक्षन्ते सर्वेऽन्योन्यं मुखानि, क्षणवारं सर्वेऽवाच इव भूताः । प्रकृतिरपि शोकमयी भूता, सर्वे स्तम्भीभूता इव संस्थिताः ।।
N७ ६३ @n
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98