Book Title: Nandanvan Kalpataru 2000 00 SrNo 04
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
-
त्वं च मन्त्रिपुत्र ! कथं जीवसि? इति राजपुत्रेण पृष्टे तेन गदितं-- अहं बुद्ध्या जीवामि।
अथैतत्प्रश्नानन्तरं त्रिभिरपि सम्भूय कुमारोऽपि पृष्टः-कुमार ! त्वमपि कथय निजाजीविकोपायम् ।
तेनोक्तं- अहं तु भाग्येन जीवामि । किन्तु भोः वयस्याः ! अस्माभिरेतेषां निजनिजवृत्त्यर्जनोपायानां परीक्षाऽपि कर्तव्या । अतोऽद्यप्रभृति प्रतिदिनं प्रत्येकं सुहृदा निजसम्मतोपायेन वृत्तिं प्रसाध्य स्वेन सह चत्वारोऽपि भोजयितव्याः । अद्य तव वारकोऽस्ति सार्थवाहपुत्र !, भोजयिष्यिसि न वा?
अवश्यं भोजयिष्यामि मम कौशलेनेति तेनाऽपि प्रत्युक्तम् । तदनु स नगरं प्रविष्टः । अथ तद्दिने किमपि पर्व आसीत् । अत: नगरे सर्वत्र लोका दरीदृश्यन्ते स्म । तान् विलोकयन् विपणौ च भ्राम्यन् स एकं हट्टमपश्यत् । तत्र हट्टे एको वृद्धः श्रेष्ठी ग्राहकेभ्यो विविधान् क्रयाणकान् विक्रीणन् आसीत् । तस्य हट्टे बहवो ग्राहका आगताः । किन्तु वार्धक्यग्रस्तत्वात् स तेभ्यः शनैः शनैर्वस्तूनि ददाति स्म । एतद् दृष्ट्वा सार्थवाहपुत्रो झटिति हट्टान्तर्गतः श्रेष्ठिनमापृच्छ्य च विविधवस्तूनां पुटकान् बद्धमालग्नः । स्वहस्तलाघवेन तेनाऽल्पेनैव कालेन सर्वेभ्योऽपि ग्राहकेभ्य इष्टक्रयाणकानि दत्तानि । तेन सर्वेऽपि ग्राहकाः सन्तुष्टाः सन्तः श्रेष्ठिने उचितमूल्यं दत्त्वा गताः । अनेन पार्श्वस्थेष्वापणेषु स्थिता अन्येऽपि बहवो ग्राहकास्तत्रैव हट्टे वस्तूनि केतुमागताः । तेऽपि सार्थवाहपुत्रेणाऽल्पीयसा कालेनैव सन्तोषिता उचितमूल्यं दत्त्वा गताः । एतेन तस्य श्रेष्ठिनस्तद्दिनेऽचिन्तितलाभो जातः । अत सोऽतीव हृष्टः सन् तमपृच्छत्- कस्त्वं पुत्र !? नाऽत्रत्यो दृश्यसे।
तेनोक्तं- तात ! पर्यटकोऽस्म्यहम् । विविधान् देशान विलोकयितुं भ्राम्यामि ।
तमुद्य त्वं ममाऽतिथीभव । चल, मम गृह एव त्वां स्नानभोजनादिकं कारयामीति श्रेष्ठ्युवाच।
किन्तु तात ! नाऽहमेकलोऽस्मि । मम त्रयो वयस्या अपि नगराद् बहिरुद्याने सन्ति । तान् विहाय नाऽहं भवदातिथ्यं स्वीकुर्याम् । इति स प्राह ।
श्रेष्ठी कथितवान् कोऽत्र बाध: ? आकारय तान् । तेऽपि ममैवाऽतिथीभविष्यन्ति। .
19 ६९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98