Book Title: Nandanvan Kalpataru 2000 00 SrNo 04
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
भवतित्युक्त्वा स तान् त्रीनपि तत्राऽऽनीतवान् । श्रेष्ठी च तान् चतुरोऽपि निजगृहं नीतवान्, दीनारदशकव्ययेन च स्नानादिकं कारयित्वा नवानि वस्त्राणि परिधाप्य भोजितवांश्च । - एवं प्रथमो दिनो व्यतीतः । अथ द्वितीयदिने श्रेष्ठिपुत्रस्य वारक आसीत् । सोऽपि प्रातःकृत्यानि समाप्य नगरभ्रमणमारब्धवान् । __ इतस्तत्र नगरे एका नर्तकी समवसत् । तस्याः पुत्री षोडशवर्षीया नवयौवनाऽतिरूपलावण्यवत्यासीत्। किन्तु साऽऽबाल्यात् पुरुषद्वेषिण्यभवत् । अत: पुरुषप्रतिच्छायामपि नैवाऽऽदत्ते स्म । तद्दिने तु गवाक्षस्थया तया सुन्दर्या नगरचर्यां विलोकयन्त्या सुरूपवानयं श्रेष्ठिपुत्रो दृष्टः । तं दृष्ट्वैव तस्या मनसि महाननुराग उत्पन्नः । मुखं च विकस्वरं जातम् । समीपस्थया तत्सख्या तस्या मुखभावो लक्षितः । अतस्तमातरमाहूय तयोक्तं- मातः ! पश्यैतं श्रेष्ठियुवानं, तव पुत्री तं दृष्ट्वाद्याऽनुरागवती जाता । तस्याः पुरुषद्वेषो नष्ट इति मन्ये । ___ नर्तक्याऽपि निजपुत्रीमुखं विलोक्य, तद्भावं चोपलक्ष्य दासीद्वारा स श्रेष्ठिपुत्र आहूत उक्तश्च - भो युवन् ! कस्त्वं? कुतश्चाऽऽयातः?
प्रवास्यस्मीति मधुरस्वरेण तेनोक्ते तया कथितं- तमुद्य मदृह एव तव निवासः । त्वयि आयाते मम भाग्योदयोऽद्य । यत आबाल्यात् पुरुषद्वेषिणी मत्पुत्री त्वां दृष्ट्वाऽनुरागवती जाता । अतस्त्वया ममाऽऽतिथ्यं स्वीकर्तव्यमेव । - तेन प्रत्युक्तं- मातः ! ममाऽन्येऽपि त्रयः सुहृद उद्याने विद्यन्ते । तान् मुक्त्वा नाऽहं भवदातिथ्यस्याऽधिकारी।
नर्तिकाऽवदत्- अरे ! किमत्र वक्तव्यम् ? तेऽपि ममाऽतिथीभवन्तु ।
बाढमित्युक्त्वा स्ववयस्यानाहूय स तद्गृहमागतः । मुदितया तयाऽपि दीनारशतव्ययेन स्नान-भोजनादि कारयित्वा वस्त्रालङ्कारादिभिः सत्कृताः । एवं श्रेष्ठिपुत्रेण निजरूपप्रभावेण सर्वेऽपि भोजिता इति द्वितीयदिनमपि व्यतीतम् । - तृतीयदिने तु मन्त्रिपुत्रस्याऽऽजीविकार्जनावसर आसीत् । सोऽपि प्रभातकाल एव नगरं प्रविष्टः । दर्शं दर्शं नगररमणीयतामुपन्यायालयं प्राप्तः सः । तत्र बहून् लोकान् समाकीर्णान् दृष्ट्वा कुतूहलवशात् तेन कश्चित् तत्कारणं पृष्टः । तेनाऽपि प्रोक्तं यदद्यैका विचित्रा घटना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98