Book Title: Nandanvan Kalpataru 2000 00 SrNo 04
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
-
-
सत्यघटना
__- मुनिधर्मकीर्तिविजयः पुरा किल वसति स्म 'सूर्यपूरे' श्रेष्ठी सुश्रावकश्च 'श्रीमोहनलाल पानाचन्दे' त्यभिधानकः । स च श्रीमच्छखेश्वरपार्श्वनाथप्रभोः परमोऽनुरागी सेवक आसीत् । 'श्रीमच्छङ्खेश्वरपार्श्वनाथप्रभुरेव मम शरणं, रक्षकः पालकश्च, स एव जीवनाधारो मे' इति मेरुगिरिरिव तस्य मनसि परमाऽविचला श्रद्धाऽऽसीत् । ___यदा कदाचिद्विभुः स्मृतिपथमायाति तदा सर्वमपि कार्यं विहाय द्रुतमेव श्री शङ्खश्वर'तीर्थं स गच्छन्नासीत् । तत्र गत्वा पार्श्वनाथविभोः मङगलदायिनं सांनिध्यं संप्राप्याऽनन्यचित्तेन तद्भक्ति चकार । प्रभोः भक्तिप्रभावेण सर्वस्या अप्याधि-व्याधिस्वरूपपीडायाः निवृत्तीभूय प्रसन्नतां स्वस्थतां च प्राप्नोति स्म सः ।
एकदा पार्श्वनाथभगवत आराधनार्थं स तत्र गतः । विभुवदनैकचित्तस्तद्गुणमयमनस्कश्च स जगत्पतेः पर्युपासनां कुरुते स्म । तस्य कण्ठः पिकवत् मधुरोऽब्धिवद्गम्भीरचाऽऽसीत् । तस्योच्चैनिनादस्य प्रतिध्वनि निशो नीरवे परमशान्तिमये च वातावरणे सर्वतोऽगुञ्जत् । यथा हरिणा: मधुरगान्धर्वतूर्यरवेणाऽऽकृष्यन्ते तथैवाऽस्य मधुरेण मङ्गलगानेन बहिःस्थिताः सर्वेऽपि जना आकृष्य झटिति मन्दिरमागताः । एवं शनैः शनैः जिनालयस्य समग्रोऽपि मण्डपो जनवृन्देन भृतः।
दैवात् तदैव सेवकसमुदायैः परिवेष्टितेन तत्क्षेत्राधिपतिना 'नवाबेन जिनगृहस्यान्तिकं शिबिरोऽकारि । ततस्तेनाऽपि जिनेश्वरभक्तस्याऽस्य श्रावकस्य मधुरो निनादः श्रुतः । तस्य मानसमानन्देन प्रोल्लसितमभूत् । “चारु चारु" एवं तन्मुखात् वाणी निर्गता । प्रत्यक्षमेतच्छोतुमुत्कण्ठितमभूत् तन्मानसम् । द्रुतमेव स सेवकमादिष्टवान् - त्वमधुनैव तत्र गच्छ, यः कोऽपि भवेत् तं सादरमत्राऽऽनय। . .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98